Go To Mantra
Viewed 102 times

अ॑प॒मित्य॒मप्र॑तीत्तं॒ यदस्मि॑ य॒मस्य॒ येन॑ ब॒लिना॒ चरा॑मि। इ॒दं तद॑ग्ने अनृ॒णो भ॑वामि॒ त्वं पाशा॑न्वि॒चृतं॑ वेत्थ॒ सर्वा॑न् ॥

Mantra Audio
Pad Path

अपऽमित्यम् । अप्रतीत्तम् । यत् । अस्मि । यमस्य। येन । बलिना । चरामि । इदम् । तत् । अग्ने । अनृण: । भवामि । त्वम् । पाशान् । विऽचृतम् । वेत्थ । सर्वान् ॥११७.१॥

Atharvaveda » Kand:6» Sukta:117» Paryayah:0» Mantra:1


PANDIT KSHEMKARANDAS TRIVEDI

ऋण से छूटने का उपदेश।

Word-Meaning: - (यमस्य) नियम करनेवाले [ऋणदाता] के (अप्रतीत्तम्) विना चुकाये (यत्) जिस (अपमित्यम्) अपमान के हेतु ऋण को (अस्मि=असामि) मैं ग्रहण करता हूँ, और (येन बलिना) जिस बलवान् के साथ [ऋण लेकर] (चरामि) मैं चेष्टा करता हूँ। (इदम्) अब (तत्) उससे, (अग्ने) हे विद्वान् ! मैं (अनृणः) ऋणरहित (भवामि) हो जाऊँ, (त्वम्) तू (सर्वान्) सब (पाशान्) बन्धनों को (विचृतम्) खोलना (वेत्थ) जानता है ॥१॥
Connotation: - मनुष्य ज्ञानपूर्वक पुरुषार्थ करके माता पिता आचार्य आदि की सेवा से देव ऋण, पितृ ऋण और ऋषि ऋण चुकावें ॥१॥
Footnote: १−(अपमित्यम्) तत्र साधुः। पा० ४।४।९८। इति अपमिति−यत्। अपमितौ अपमाने साधु। अपमानसाधकमृणम् (अप्रतीत्तम्) प्रतिपूर्वाद् ददातेर्निष्ठा। अच उपसर्गात्तः। पा० ७।४।४७। इत्याकारस्य तकारः। दस्ति। ६।३।१२४। उपसर्गस्य दीर्घः। अप्रत्यर्पितम् (यत्) (अस्मि) अस ग्रहणे भ्वादिः शपो लुक् छान्दसः। असामि। गृह्णामि (यमस्य) प्रवर्ते (इदम्) इदानीम् (तत्) तस्माद् ऋणात् (अग्ने) विद्वन् (अनृणः) ऋणरहितः (भवामि) (त्वम्) (पाशान्) बन्धान् (विचृतम्) शकि णमुल्कमुलौ। पा० ३।४।१२। इति विचृती हिंसाग्रन्थनयोः−बाहुलकात् कमुल् तुमर्थे। विचर्तितुं मोचयितुम् (वेत्थ) जानासि (सर्वान्) ॥