Go To Mantra
Viewed 90 times

यद्या॒मं च॒क्रुर्नि॒खन॑न्तो॒ अग्रे॒ कार्षी॑वणा अन्न॒विदो॒ न वि॒द्यया॑। वै॑वस्व॒ते राज॑नि॒ तज्जु॑हो॒म्यथ॑ य॒ज्ञियं॒ मधु॑मदस्तु॒ नोऽन्न॑म् ॥

Mantra Audio
Pad Path

यत् । यामम् । यक्रु: । निऽखनन्त: । अग्रे । कार्षीवणा: । अन्नऽविद: । न । विद्यया । वैवस्वते । राजनि । तत् । जुहोमि । अथ । यज्ञियम् । मधुऽमत् । अस्तु । न:। अन्नम् ॥११६.१॥

Atharvaveda » Kand:6» Sukta:116» Paryayah:0» Mantra:1


PANDIT KSHEMKARANDAS TRIVEDI

पाप से निवृत्ति का उपदेश।

Word-Meaning: - (अग्रे) पहिले (निखनन्तः) [भूमि को] खोदते हुए (कार्षीवणाः) खेती के सेवन करनेवाले किसानों ने (विद्यया) विद्या के साथ (अन्नविदः न) अन्न प्राप्त करनेवाले पुरुषों के समान, (यत् यामम्) जिस नियमसमूह को (चक्रुः) किया है। (तत्) उसी [नियमसमूह] को (वैवस्वते) मनुष्यों के स्वामी (राजनि) राजा परमेश्वर में (जुहोमि) मैं समर्पण करता हूँ, [जिससे] (अथ) फिर (नः) हमारा (अन्नम्) प्राणसाधन अन्न (यज्ञियम्) यज्ञ के योग्य और (मधुमत्) ज्ञानयुक्त (अस्तु) होवे ॥१॥
Connotation: - जैसे विद्वानों के समान किसान लोग भूमि जोत कर, बीज बोकर अन्न प्राप्त करते हैं, उसी प्रकार सब मनुष्य सर्वनियन्ता जगदीश्वर का आश्रय लेकर कर्म करते हुए आनन्द भोगें ॥१॥
Footnote: १−(यत्) (यामम्) तस्य समूहः। पा० ४।२।३७। इति यम−अण्। नियमानां समूहम् (चक्रुः) कृतवन्तः (निखनन्तः) भूमिं कर्षन्तः (अग्रे) पुरा (कार्षीवणाः) कृषि−ङीप्, कृष्या वनं सेवनं कृषीवणं, तदस्ति येषाम्। तस्येदम्। पा० ४।३।१२०। इत्यण्। कृषिसेविनः। कर्षकाः (अन्नविदः) अन्नप्रापकाः (न) उपमायाम्−निघ० ३।१३। (विद्यया) ज्ञानेन (वैवस्वते) तस्येदम्। पा० ४।३।१२०। इति विवस्वत−अण्। विवस्वन्तो मनुष्याः−निघ० २।३। विवस्वत आदित्याद् विवस्वान् विवासनवान्−निरु० ७।२६। विवस्वतां मनुष्याणां स्वामिनि (राजनि) शासके परमात्मनि (तत्) तथाविधं यामम् (जुहोमि) समर्पयामि (अथ) अनन्तरम् (यज्ञियम्) यज्ञार्हम् (मधुमत्) ज्ञानयुक्तम् (अस्तु) (नः) अस्माकम् (अन्नम्) जीवनसाधनम् ॥