Viewed 104 times
ऋ॒तस्य॒र्तेना॑दित्या॒ यज॑त्रा मु॒ञ्चते॒ह नः॑। य॒ज्ञं यद्य॑ज्ञवाहसः शिक्षन्तो॒ नोप॑शेकि॒म ॥
Pad Path
ऋतस्य । ऋतेन । आदित्या: । यजत्रा: । मुञ्चत । इह । न: । यज्ञम् । यत् । यज्ञऽवाहस: । शिक्षन्त: । न । उपऽशेकिम ॥११४.२॥
Atharvaveda » Kand:6» Sukta:114» Paryayah:0» Mantra:2
PANDIT KSHEMKARANDAS TRIVEDI
पाप से मुक्ति का उपदेश।
Word-Meaning: - (आदित्याः) हे विद्या से प्रकाशमान (यजत्राः) पूजनीय संगतियोग्य पुरुषो ! (ऋतस्य) धर्म के (ऋतेन) सत्य व्यवहार से (इह) इस [पापकर्म] में (नः) हमें (मुञ्चत) मुक्त करो। (यत्) क्योंकि (यज्ञवाहसः) हे यज्ञ अर्थात् परमेश्वर की उपासना वा शिल्पविद्या प्राप्त करानेवाले महाशयो ! (यज्ञम्) देवताओं की पूजा (शिक्षन्तः) करने की इच्छा करते हुए हम लोग (न उपशेकिम) उसे न कर सके ॥२॥
Connotation: - विद्वान् लोग प्रमादी आलसी पुरुषों को धार्मिक व्यवहारों में लगाकर पुरुषार्थी बनावें ॥२॥
Footnote: २−(ऋतस्य) धर्मस्य (ऋतेन) सत्यव्यवहारेण (आदित्याः) हे विद्यया प्रकाशमानाः (यजत्राः) अमिनक्षियजि०। उ० ३।१०५। इति यजेरत्रन्। यष्टव्याः। पूजनीयाः संगमनीया (मुञ्चत) वियोजयत (इह) अस्मिन् पापकर्मणि (नः) अस्मान् (यज्ञम्) देवपूजनम् (यत्) यस्मात्कारणात् (यज्ञवाहसः) वहिहाधाञ्भ्यश्छन्दसि। उ० ४।२२१। इति वहेरसुन्। हे यज्ञस्य परमेश्वरोपासनस्य शिल्पज्ञानस्य वा प्रापकाः (शिक्षन्तः) शक्लृ शक्तौ सनि। सनि मीमाघुरभलभशक०। पा० ७।४।५४। इत्यचः स्थान इस्। अत्र लोपोऽभ्यासस्य। पा० ७।४।५८। इत्यभ्यासलोपः। शक्तुं निष्पादयितुमिच्छन्तः (न) निषेधे (उपशेकिम) शक्लृ−लिट्। कर्तुं शक्ता बभूविम ॥
