Go To Mantra
Viewed 91 times

उन्मु॑ञ्च॒ पाशां॒स्त्वम॑ग्न ए॒षां त्रय॑स्त्रि॒भिरुत्सि॑ता॒ येभि॒रास॑न्। स ग्राह्याः॒ पाशा॒न्वि चृ॑त प्रजा॒नन्पि॑तापु॒त्रौ मा॒तरं॑ मुञ्च॒ सर्वा॑न् ॥

Mantra Audio
Pad Path

उत् । मुञ्च । पाशान् । त्वम् । अग्ने । एषाम् । त्रय: । त्र‍िऽभि: । उत्सिता: । येभि: । आसन् । स: । ग्राह्या: । पाशान् । वि । चृत । प्रऽजानन् । पितापुत्रौ । मातरम् । मुञ्च । सर्वान् ॥११२.२॥

Atharvaveda » Kand:6» Sukta:112» Paryayah:0» Mantra:2


PANDIT KSHEMKARANDAS TRIVEDI

कुल की रक्षा का उपदेश।

Word-Meaning: - (अग्ने) हे विद्वान् ! (त्वम्) तू (एषाम्) इन [पिता पुत्र और माता] के (पाशान्) फन्दों को (उन्मुञ्च) खोल दे, (त्रयः) जो तीनों (एभिः) जिन (त्रिभिः) तीनों [ऊँचे, नीचे, मध्यम पाशों] से (उत्सिताः) जकड़े हुए (आसन्) हैं। (सः) सो तू (प्रजानन्) ज्ञानी होकर (ग्राह्याः) जकड़नेवाले गठिया आदि रोग के (पाशान्) फन्दों को (वि चृत) खोल दे, (पितापुत्रौ) पिता पुत्र, (मातरम्) माता, (सर्वान्) सब को (मुञ्च) [दुःख से] मुक्त कर ॥२॥
Connotation: - मनुष्य विद्वानों के अनुशासन से माता पिता पुत्र आदि सब की यथायोग्य रक्षा करें ॥२॥
Footnote: २−(उन्मुञ्च) वियोजय (पाशान्) क्लेशान् (त्वम्) (अग्ने) विद्वन् (एषाम्) पित्रादीनाम् (त्रयः) माता पिता पुत्र इति ये त्रयः (त्रिभिः) उत्तमाधममध्यमैः पाशैः (उत्सिताः) षिञ् बन्धने−क्त। उत्कर्षेण बद्धाः (येभिः) यैः (आसन्) लडर्थे−लङ्। सन्ति (पितापुत्रौ) आनङ् ऋतो द्वन्द्वे। पा० ६।३।२५। इति पूर्वपदस्य आनङ्। पिता च पुत्रश्च (मातरम्) जननीम् (मुञ्च) दुःखाद् विमोचय (सर्वान्)। अन्यद् गतम् ॥