Go To Mantra
Viewed 87 times

मा ज्ये॒ष्ठं व॑धीद॒यम॑ग्न ए॒षां मू॑ल॒बर्ह॑णा॒त्परि॑ पाह्येनम्। स ग्राह्याः॒ पाशा॒न्वि चृ॑त प्रजा॒नन्तुभ्यं॑ दे॒वा अनु॑ जानन्तु॒ विश्वे॑ ॥

Mantra Audio
Pad Path

मा । ज्येष्ठम् । वधीत् । अयम् । अग्ने । एषाम् । मूलऽबर्हणात् । परि । पाहि । एनम् । स: । ग्राह्या: । पाशान् । वि । चृत । प्रऽजानन् । तुभ्यम् । देवा: । अनु । जानन्तु । विश्वे ॥११२.१॥

Atharvaveda » Kand:6» Sukta:112» Paryayah:0» Mantra:1


PANDIT KSHEMKARANDAS TRIVEDI

कुल की रक्षा का उपदेश।

Word-Meaning: - (अग्ने) हे विद्वान् पुरुष ! (अयम्) यह [रोग] (एषाम्) इन [पुरुषों] के बीच (ज्येष्ठम्) विद्या और वय में बहुत बड़े पुरुष को (मा वधीत्) न मारे, (एनम्) इस [पुरुष] को (मूलबर्हणात्) मूल छेदन से (परि पाहि) सर्वथा बचा। (सः) सो तू (प्रजानन्) ज्ञानी होकर (ग्राह्याः) जकड़नेवाले गठिया आदि रोग के (पाशान्) फन्दों को (विचृत) खोल दे, (विश्वे) सब (देवाः) विद्वान् लोग (तुभ्यम्) तुझको (अनु जानन्तु) अनुमति देवें ॥१॥
Connotation: - मनुष्य विद्वानों की सम्मति से श्रेष्ठ पुरुष की रक्षा का सदा उपाय करें ॥१॥
Footnote: १−(ज्येष्ठम्) प्रशस्य वा वृद्ध−इष्ठन्। ज्य च। वृद्धस्य च। पा० ५।३।६१, ६२। इति प्रशस्यस्य, वृद्धस्य वा ज्य इत्यादेशः। ज्ञाने वयसि वा वृद्धतमम् (मा वधीत्) मा हन्तु (अयम्) रोगः (अग्ने) हे विद्वन् (एषाम्) गृहस्थानां मध्ये (मूलबर्हणात्) अ० ६।११०।२। मूलच्छेदनात् (परि) सर्वतः (पाहि) (एनम्) ज्येष्ठम् (सः) स त्वम् (ग्राह्याः) अ० २।९।१। अङ्गग्रहीत्र्याः पीडायाः (पाशान्) बन्धान् क्लेशान् (वि चृत) चृती हिंसाग्रन्थनयोः। विमुञ्च (प्रजानन्) विद्वान् (तुभ्यम्) विदुषे (देवाः) विद्वांसः (अनु जानन्तु) अनुमतिं ददतु (विश्वे) सर्वे ॥