Go To Mantra
Viewed 113 times

इ॒मं मे॑ अग्ने॒ पुरु॑षं मुमुग्ध्य॒यं यो ब॒द्धः सुय॑तो॒ लाल॑पीति। अतोऽधि॑ ते कृणवद्भाग॒धेयं॑ य॒दानु॑न्मदि॒तोऽस॑ति ॥

Mantra Audio
Pad Path

इमम् । मे । अग्ने । पुरुषम् । मुमुग्धि । अयम् । य: । बध्द: । सुऽयत: । लालपीति ।अत: । अधि । ते । कृणवत् । भागऽधेयम् । यदा । अनुत्ऽमदित: । असति ॥१११.१॥

Atharvaveda » Kand:6» Sukta:111» Paryayah:0» Mantra:1


PANDIT KSHEMKARANDAS TRIVEDI

मानसविकार के नाश का उपदेश।

Word-Meaning: - (अग्ने) हे विद्वान् पुरुष ! (मे) मेरे लिये (इमम् पुरुषम्) इस पुरुष को [आत्मा को] (मुमुग्धि) मुक्त कर, (अयम् यः) यह जो [जीव] (बद्धः) बँधा हुआ और (सुयतः) बहुत जकड़ा हुआ (लालपीति) अत्यन्त बर्बराता है। (अतः) फिर यह (ते) तेरे (भागधेयम्) सेवनीय भाग को (अधि) अधिकारपूर्वक (कृणवत्) करे, (यदा) जब वह (अनुन्मदितः) उन्मादरहित (असति) हो जावे ॥१॥
Connotation: - मनुष्य विद्वानों के सत्सङ्ग से दुष्टकर्म छोड़ कर सावधान होकर धार्मिक कर्म करे ॥१॥
Footnote: १−(इमम्) समीपस्थम् (मे) मह्यम् (अग्ने) विद्वन् (पुरुषम्) आत्मानम् (मुमुग्धि) मोचय (अयम्) (यः) (बद्धः) बन्धं गतः (सुयतः) यम उपरमे−क्त। दृढप्रतिरुद्धः (लालपीति) भृशं प्रलपति (अतः) मोचनानन्तरम् (अधि) अधिकृत्य (ते) तव (कृणवत्) कुर्य्यात् (भागधेयम्) सेवनीयं कर्म (यदा) (अनुन्मदितः) अनुन्मत्तः उन्मादरहितः (असति) भवेत् ॥