Go To Mantra
Viewed 84 times

व्या॒घ्रेऽह्न्य॑जनिष्ट वी॒रो न॑क्षत्र॒जा जाय॑मानः सु॒वीरः॑। स मा व॑धीत्पि॒तरं॒ वर्ध॑मानो॒ मा मा॒तरं॒ प्र मि॑नी॒ज्जनि॑त्रीम् ॥

Mantra Audio
Pad Path

व्याघ्रे । अह्नि । अजनिष्ट । वीर: । नक्षत्रऽजा: । जायमान: । सुऽवीर: । स: । मा । वधीत् । पितरम् । वर्धमान: । मा । मातरम् । प्र । मिनीत् । जनित्रीम् ॥११०.३॥

Atharvaveda » Kand:6» Sukta:110» Paryayah:0» Mantra:3


PANDIT KSHEMKARANDAS TRIVEDI

ऐश्वर्य बढ़ाने के लिये उपदेश।

Word-Meaning: - (वीरः) यह वीर पुरुष (नक्षत्रजाः) नक्षत्र के समान गति, उपाय उत्पन्न करनेवाला (सुवीरः) महावीर (जायमानः) होता हुआ (व्याघ्रे) व्याघ्र के समान बलवान् (अति) दिन में [माता-पिता के बल के समय] (अजनिष्ट) उत्पन्न हुआ है। (सः) वह (वर्धमानः) बढ़ता हुआ (पितरम्) पिता को (मा वधीत्) न मारे और (जनित्रीम्) जन्म देनेवाली (मातरम्) माता को (मा प्र मिनीत्) कभी न सतावे ॥३॥
Connotation: - शूरवीर पुरुष सुशिक्षित बलवान् माता से जन्म पाकर उनको कष्ट से बचा कर सदा सुखी रख कर अपना सौभाग्य बढ़ावे ॥३॥
Footnote: ३−(व्याघ्रे) अ० ४।२।१। सिंहो व्याघ्र इति पूजायाम् व्याघ्रो व्याघ्रणाद् व्यादाय हन्तीति वा−निरु० ३।१८। व्याघ्रतुल्ये बलवति (अह्नि) दिने। काले (अजनिष्ट) जातोऽभूत् (वीरः) वीर्योपेतः (नक्षत्रजाः) जनसनखनक्रमगमो विट्। पा० ३।२।६७। इति नक्ष+जन जनने विट्। विड्वनोरनुनासिकस्यात् पा० ६।४।४१। इत्यात्वम्। नक्षत्रसमानां गतिमुपायं जनयति यः सः (जायमानः) उत्पद्यमानः (सुवीरः) अतिशूरः (सः) (मा वधीत्) मा हन्तु (पितरम्) पालकं जनकम् (वर्धमानः) वृद्धिं कुर्वन् (मातरम्) मानकर्त्रीम् (मा प्र मिनीत्) मीञ् हिंसायाम्, लिङि सिपि छान्दसं रूपम्। मा प्र मीनीयात् न दुःखयेत् (जनित्रीम्) जनयित्रीम्। जननीम् ॥