Viewed 92 times
मे॒धां सा॒यं मे॒धां प्रा॒तर्मे॒धां म॒ध्यन्दि॑नं॒ परि॑। मे॒धां सूर्य॑स्य र॒श्मिभि॒र्वच॒सा वे॑शयामहे ॥
Pad Path
मेधाम् । सायम् । मेधाम् । प्रात: । मेधाम् । मध्यन्दिनम् । परि । मेधाम् । सूर्यस्य । रश्मिऽभि: । वचसा । आ । वेशयामहे ॥१०८.५॥
Atharvaveda » Kand:6» Sukta:108» Paryayah:0» Mantra:5
PANDIT KSHEMKARANDAS TRIVEDI
बुद्धि और धन की प्राप्ति के लिये उपदेश।
Word-Meaning: - (मेधाम्) शुभ गुणवाली बुद्धि वा सम्पत्ति को (सायम्) सायंकाल, (मेधाम्) शास्त्रादि विषयवाली बुद्धि वा सपत्ति को (प्रातः) प्रातःकाल, (मेधाम्) धर्म का स्मरण रखनेवाली बुद्धि वा सम्पत्ति को (मध्यन्दिनम् परि) मध्याह्न समय में, (मेधाम्) सत्य व्यवहारवाली बुद्धि वा संपत्ति को (सूर्यस्य) सूर्य की (रश्मिभिः) फैलनेवाली किरणों के साथ (वचसा) परस्पर बातचीत से (आ) भले प्रकार (वेशयामहे) हम स्थापित करते हैं ॥५॥
Connotation: - मनुष्य सोते, जागते, और कर्म करते धार्मिक बुद्धि और सम्पत्ति को सूर्य के प्रकाश के समान विस्तीर्ण करके आनन्द प्राप्त करें ॥५॥
Footnote: ५−(मेधाम्) शुभगुणवतीं बुद्धिं सम्पत्तिं वा (सायम्) सायंकाले (मेधाम्) शास्त्रादिविषयां सम्पत्तिं वा (प्रातः) प्रातःकाले (मेधाम्) धर्म्मस्मरणशीलां बुद्धिं सम्पत्तिं वा (मध्यन्दिनम्) दिनस्य मध्यं राजदन्तादित्वात् पूर्वनिपातः। पृषोदरादित्वान्नकारागमः। मध्याह्नम् (परि) लक्षणेत्थं भूताख्यान०। पा० १।४।९०। इति इत्थंभूताख्यांए कर्मप्रवचनीयत्वम्। प्रति (मेधाम्) सत्यव्यवहारां बुद्धिं सम्पत्तिं वा (सूर्यस्य) आदित्यस्य (रश्मिभिः) व्यापकैः किरणैः (वचसा) परस्परसम्वादेन (आ) समन्तात् (वेशयामहे) आत्मनि स्थापयामः ॥
