Go To Mantra
Viewed 105 times

ऐना॑न्द्यतामिन्द्रा॒ग्नी सोमो॒ राजा॑ च मे॒दिनौ॑। इन्द्रो॑ म॒रुत्वा॑ना॒दान॑म॒मित्रे॑भ्यः कृणोतु नः ॥

Mantra Audio
Pad Path

आ । एनान् । द्यताम् । इन्द्राग्नी इति । सोम: । राजा । च । मेदिनौ । इन्द्र: । मरुत्वान् । आऽदानम् । अमित्रेभ्य: । कृणोतु । न: ॥१०४.३॥

Atharvaveda » Kand:6» Sukta:104» Paryayah:0» Mantra:3


PANDIT KSHEMKARANDAS TRIVEDI

शत्रुओं के हराने का उपदेश।

Word-Meaning: - (इन्द्राग्नी) वायु और अग्नि के समान गुणवान् (मेदिनौ) प्रीति करनेवाले (सोमः) सेनाप्रेरक युद्धमन्त्री (च) और (राजा) ऐश्वर्यवान् न्यायाधीश दोनों (एनान्) इन शत्रुओं को (आद्यताम्) बाँध लेवें। (मरुत्वान्) शूरों को साथ रखनेवाला (इन्द्रः) महाप्रतापी राजा (नः) हमारे (अमित्रेभ्यः) शत्रुओं के लिये (आदानम्) आकर्षण यन्त्र (कृणोतु) बनावे ॥३॥
Connotation: - सेनासचिव, न्यायमन्त्री और मुख्य सेनापति अपने शूर वीरों से शत्रुओं को परास्त करें ॥३॥
Footnote: ३−(एनान्) शत्रून् (आद्यताम्) बध्नीताम् (इन्द्राग्नी) वाय्वग्निवद् गुणवन्तौ। इन्द्राग्नी=वाय्वग्नी−दयानन्द-भाष्ये यजु० २१।२०। (सोमः) सेनाप्रेरको युद्धमन्त्री (राजा) ऐश्वर्यवान् न्यायसचिवः (च) (मेदिनौ) मिद स्नेहने−णिनि। स्नेहिनौ (इन्द्रः) महाप्रतापी राजा (मरुद्भिः) शूरवीरैर्युक्तः अ० १।२०।१। (आदानम्) आकर्षणयन्त्रम् (अमित्रेभ्यः) शत्रूणां बन्धाय (कृणोतु) करोतु (नः) अस्माकम् ॥