Go To Mantra
Viewed 91 times

आञ्ज॑नस्य म॒दुघ॑स्य॒ कुष्ठ॑स्य॒ नल॑दस्य च। तु॒रो भग॑स्य॒ हस्ता॑भ्यामनु॒रोध॑न॒मुद्भ॑रे ॥

Mantra Audio
Pad Path

आऽअञ्जनस्य । मदुघस्य । कुष्ठस्य । नलदस्य । च । तुर: । भगस्य । हस्ताभ्याम् । अनुऽरोधनम् । उत् । भरे ॥१०२.३॥

Atharvaveda » Kand:6» Sukta:102» Paryayah:0» Mantra:3


PANDIT KSHEMKARANDAS TRIVEDI

जितेन्द्रिय होने का उपदेश।

Word-Meaning: - (आञ्जनस्य) संसार के प्रकट करनेवाले, (मदुघस्य) आनन्द के सींचनेवाले, (कुष्ठस्य) गुण जाँचनेवाले, (नलदस्य) बन्धन काटनेवाले, (तुरः) शीघ्रकारी, (च) और (भगस्य) बड़े ऐश्वर्यवाले ब्रह्म के (अनुरोधनम्) यथावत् पूजन को (हस्ताभ्याम्) अपने दोनों हाथों [में बल] के लिये (उत्) उत्तम रीति से (भरे) मैं धारण करता हूँ ॥३॥
Connotation: - मनुष्य उस जगदीश्वर के अनन्त शुभगुणों का विचार करके प्रयत्नपूर्वक सदा प्रसन्न रहें ॥३॥ इति दशमोऽनुवाकः ॥ इति चतुर्दशः प्रपाठकः ॥
Footnote: ३−(आञ्जनस्य) अ० ४।९।३। आङ्+अञ्जू व्यक्तौ−ल्युट्। यथावत्संसारस्य व्यक्तीकारकस्य ब्रह्मणः (मदुघस्य) भृमृशीङ्०। उ० १।७। इति मद हर्षे−उ प्रत्ययः+घृ सेके भासे च−ड। हर्षसेचकस्य (कुष्ठस्य) अ० ५।४।१। कुष निष्कर्षे−क्थन्। गुणपरीक्षकस्य (नलदस्य) अ० ४।३७।३। णल बन्धने−अच्+दो अवखण्डने−क। बन्धनच्छेदकस्य (च) (तुरः) तुर त्वरणे−क्विप्। वरणशीलस्य (भगस्य) ऐश्वर्यवतो ब्रह्मणः (हस्ताभ्याम्) हस्तयोर्बलप्राप्तये (अनुरोधनम्) यथावत्पूजनम् (उत्) उत्कर्षेण (भरे) हृदये धरामि ॥