Go To Mantra
Viewed 99 times

उदायु॒रुद्बल॒मुत्कृ॒तमुत्कृ॒त्यामुन्म॑नी॒षामुदि॑न्द्रि॒यम्। आयु॑ष्कृ॒दायु॑ष्पत्नी॒ स्वधा॑वन्तौ गो॒पा मे॑ स्तं गोपा॒यतं॑ मा। आ॒त्म॒सदौ॑ मे स्तं॒ मा मा॑ हिंसिष्टम् ॥

Mantra Audio
Pad Path

उत् । आयु: । उत् । बलम् । उत् । कृतम् ।उत् । कृत्याम् । उत् ।मनीषाम् । उत् । इन्द्रियम् । आयु:ऽकृत् । आयुष्पत्नीत्यायु:ऽपत्नी । स्वधाऽवन्तौ । गोपा । मे । रतम् । गोपायतम् । मा । आत्मऽसदौ । मे । स्तम् । मा । मा । हिंसिष्टम् ॥९.८॥

Atharvaveda » Kand:5» Sukta:9» Paryayah:0» Mantra:8


PANDIT KSHEMKARANDAS TRIVEDI

N/A

Word-Meaning: - (आयुः) मेरा जीवन (उत्) उत्तम, (बलम्) बल (उत्) उत्तम, (कृतम्) किया हुआ काम (उत्) उत्तम, (कृत्याम्) कर्तव्य कर्म (उत्) उत्तम, (मनीषाम्) बुद्धि (उत्) उत्तम, (इन्द्रियम्) इन्द्रपन अर्थात् परम ऐश्वर्य (उत्=उत्कर्षतमम्) उत्तम बनाओ। (आयुष्पत्नी) जीवन पालनेवाली माता और (आयुष्कृत्) जीवन करनेवाले पिता तुम दोनों ((स्वधावन्तौ) अन्नवाले होकर (मे) मेरे (गोपा=गोपौ) रक्षक (स्तम्) होओ। (मा) मुझको (गोपायतम्) बचाओ। (मे) मेरे (आत्मसदौ) आत्मा में रहनेवाले (स्तम्) होओ। (मा) मुझे (मा हिंसिष्टम्) दुःखी मत होने दो ॥८॥
Connotation: - मनुष्य उत्तम माता-पिता से उत्तम विद्या, पुरुषार्थ आदि प्राप्त करकेसंसार में सुखी रहते हैं ॥८॥
Footnote: १−(उत्) उत्कर्षतमम् (आयुः) जीवनम् (बलम्) सामर्थ्यम् (कृत्याम्) अ० ४।९।५। डुकृञ् करणे-क्यप्, तुक्, टाप्। कर्तव्यम् (मनीषाम्) कॄतॄभ्यामीषन्। उ० ४।२६। इति। मनु अवबोधने-ईषन्, टाप्। यद्वा मनस्=ईष गतौ-क, टाप्। शकन्ध्वादित्वात् पररूपम्। मनीषया मनस ईषया स्तुत्या प्रज्ञया वा-निरु० २।२५। तथा ९।१०। मनस ईषां गतिम्। प्रज्ञाम् (इन्द्रियम्) इन्द्रियमिन्द्रलिङ्गमिन्द्रदृष्ट० । पा० ५।३।९३। इति इन्द्र-घ। धननाम-निघ० २।१०। परमैश्वर्यम्। (आयुष्कृत्) जीवनकर्ता (आयुष्पत्नी) जीवनपालयित्री (स्वधावन्तौ) स्वधा=अन्नम्-निघ० २।७। अन्नवन्तौ सन्तौ (गोपा) गोपायतीति गोपाः, गुपू-क्विप्, अतो लोपः, यलोपः। सुपां सुलुक्०। पा० ७।१।३९। इति आकारः। गोपौ। गोप्तारौ। रक्षकौ (मे) मम (स्तम्) भवतम् (गोपायतम्) रक्षतम् (मा) माम् (आत्मसदौ) आत्मनि तिष्ठन्तौ (मे) (स्तम्) (मा) माम् (मा हिंसिष्टम्) मा वधीष्टम् ॥