Go To Mantra
Viewed 88 times

इ॒न्द्रा या॑हि मे॒ हव॑मि॒दं क॑रिष्यामि॒ तच्छृ॑णु। इ॒म ऐ॒न्द्रा अ॑तिस॒रा आकू॑तिं॒ सं न॑मन्तु मे। तेभिः॑ शकेम वी॒र्यं जात॑वेद॒स्तनू॑वशिन् ॥

Mantra Audio
Pad Path

इन्द्र । आ । याह‍ि । मे । हवम् । इदम् । करिष्यामि । तत् । शृणु । इमे । ऐन्द्रा: । अतिऽसरा: । आऽकूतिम् । सम् । नमन्तु । मे । तेभि: । शकेम । वीर्यम् । जातऽवेद: । तनूऽवशिन् ॥८.२॥

Atharvaveda » Kand:5» Sukta:8» Paryayah:0» Mantra:2


PANDIT KSHEMKARANDAS TRIVEDI

राजा के धर्म का उपदेश।

Word-Meaning: - (इन्द्र) हे परम ऐश्वर्यवाले राजन् ! (मे हवम्) मेरी पुकार को (आ याहि) तू पहुँच। (इदम्) ऐश्वर्यसम्बन्धी कर्म (करिष्यामि) मैं करूँगा। (तत्) सो (शृणु) तू सुन। (इमे) यह (ऐन्द्राः) ऐश्वर्यवान् राजा के (अतिसराः) प्रयत्न (मे) मेरे (आकूतिम्) संकल्प को (सम् नमन्तु) सिद्ध करें। (जातवेदः) हे बहुत धनवाले (तनूवशिन्) हे शरीरों को वश में रखनेवाले राजन् ! (तेभिः) उन [प्रयत्नों] से (वीर्यम्) वीरपन (शकेम) पा सकें ॥२॥
Connotation: - राजा प्रजागण की पुकार सुन कर प्रयत्नपूर्वक उनकी उन्नति करे ॥२॥
Footnote: २−(इन्द्र) हे परमैश्वर्यवन् राजन् (आ याहि) आगच्छ (मे) मम (हवम्) आह्वानम् (इदम्) इन्देः कमिन्नलोपश्च। उ० ४।१७७। इति इदि परमैश्वर्ये−कमिन्। परमैश्वर्यहेतु कर्म (करिष्यामि) अनुष्ठास्यामि (तत्) तस्मात् (शृणु) आकर्णय (इमे) (ऐन्द्राः) इन्द्र−अण्। इन्द्रसम्बन्धिनः। राजसम्बन्धिनः (अतिसराः) सृ गतौ−पचाद्यच्। प्रयत्नाः (आकूतिम्) संकल्पम् (सम्) सम्यक् (नमन्तु) प्रह्वीकुर्वन्तु। साधयन्तु (मे) मम (तेभिः) तैः। अतिसरैः (शकेम) प्राप्तुं शक्नुयाम (वीर्यम्) वीर्याय वीरकर्मणे−निरु० १०।१९। वीरकर्म (जातवेदः) अ० १।७।२। हे जातधन (तनूवशिन्) अ० १।७।२। हे शरीराणां वशयितः ॥