Go To Mantra
Viewed 116 times

पर्यु॒ षु प्र ध॑न्वा॒ वाज॑सातये॒ परि॑ वृ॒त्राणि॑ स॒क्षणिः॑। द्वि॒षस्तदध्य॑र्ण॒वेने॑यसे सनिस्र॒सो नामा॑सि त्रयोद॒शो मास॒ इन्द्र॑स्य गृ॒हः ॥

Mantra Audio
Pad Path

परि । ऊं इति । सु । प्र । धन्व । वाजऽसातये । परि । वृत्राणि । सक्षणि: । द्विष: । तत् । अधि। अर्णवेन । ईयसे । सनिस्रस: । नाम । असि । त्रय:ऽदश: । मास: । इन्द्रस्य । गृह: ॥६.४॥

Atharvaveda » Kand:5» Sukta:6» Paryayah:0» Mantra:4


PANDIT KSHEMKARANDAS TRIVEDI

सब सुख प्राप्ति का उपदेश।

Word-Meaning: - (वृत्राणि) घेरनेवाले राक्षसों को (परि) सब ओर से (सक्षणिः) हरानेवाला (वाजसातये) हमें अन्न देने के लिये (उ) अवश्य ही (सु) अच्छे प्रकार (परि प्र धन्व) सब ओर से प्राप्त हो। (तत्) इसी लिये (अर्णवेन) जल से भरे समुद्र द्वारा (द्विषः) वैरियों पर (अधि) ऐश्वर्य से (ईयसे) तू पहुँचाता है। (सनिस्रसः) शत्रुओं का अतिशय नीचे गिरानेवाला तू (नाम) प्रसिद्ध (त्रयोदशः) दश इन्द्रिय मन और बुद्धि से परे तेरहवाँ परमेश्वर, (मासः) परिमाण करनेवाला (इन्द्रस्य) जीवात्मा का (गृह) घर (असि) है ॥४॥
Connotation: - सर्वव्यापक परमेश्वर के आश्रय से हम समुद्रादि में भी सब विघ्न हटाकर पुरुषार्थ करें ॥४॥ यह मन्त्र कुछ भेद से ऋग्वेद में है−म० ९।११०।१ ॥
Footnote: ४−(परि) परितः (ड) निश्चयेन (सु) सुष्ठु (प्र) प्रकर्षेण (धन्व) गच्छ। प्राप्नुहि (वाजसातये) अस्मभ्यमन्नदानाय (परि) परितः (वृत्राणि) आवरकाणि रक्षांसि (सक्षणिः) सक्षति गतिकर्मा−निघ० २।१४। अर्तिसृधृ० उ० २।१०२। अनि प्रत्ययः। यद्वा षहः अभिभवे−सनि। अभिभविता (द्विषः) शत्रून् (तत्) तस्मात् कारणात् (अधि) ऐश्वर्येण (अर्णवेन) सर्वधातुभ्योऽसुन्। उ० ४।१८९। इति ऋणु गतौ−असुन्। अर्णसो लोपश्च। वा० पा० ५।२।१०९। अर्णस्−व, सस्य लोपः। जलयुक्तेन समुद्रेण (ईयसे) प्राप्नोषि (सनिस्रसः) स्रंसु गतौ−यङन्तात् घञ्, अल्लोपयलोपौ। नीग्वञ्चुस्रंसुध्वंसु० पा० ७।४।८४। इति नीग् आगमः। छान्दसो ह्रस्वः, अन्तर्गतो ण्यर्थः, अतिशयेन अधः पातयिता (नाम) प्रसिद्धौ (असि) (त्रयोदशः) त्रयोदशानां दशेन्द्रियमनोबुद्धीश्वराणां संख्यापूरकः परमेश्वरः (मासः) मसी परिणामे परिमाणे च−घञ्। परिमाणकर्ता (इन्द्रस्य) जीवस्य (गृहः) आश्रयः ॥