Go To Mantra
Viewed 94 times

ब्रह्म॑ जज्ञा॒नं प्र॑थ॒मं पु॒रस्ता॒द्वि सी॑म॒तः सु॒रुचो॑ वे॒न आ॑वः। स बु॒ध्न्या॑ उप॒मा अ॑स्य वि॒ष्ठाः स॒तश्च॒ योनि॒मस॑तश्च॒ वि वः॑ ॥

Mantra Audio
Pad Path

ब्रह्म । जज्ञानम् । प्रथमम् । पुरस्तात् । वि । सीमत: । सुऽरुच: । वेन: । आव: । स: । बुध्न्या: । उपऽमा:। अस्य । विऽस्था: । सत: । च । योनिम् । असत: । च । व‍ि । व: ॥६.१॥

Atharvaveda » Kand:5» Sukta:6» Paryayah:0» Mantra:1


PANDIT KSHEMKARANDAS TRIVEDI

सब सुख प्राप्ति का उपदेश।

Word-Meaning: - (वेनः) प्रकाशमान वा मेधावी परमेश्वर ने (पुरस्तात्) पहिले काल में (प्रथमम्) प्रख्यात (जज्ञानम्) उपस्थित रहनेवाले (ब्रह्म) वृद्धि के कारण अन्न को और (सुरुचः) बड़े रुचिर लोकों को (सीमतः) सीमाओं से (वि आवः) फैलाया है। (सः) उसने (बुध्न्याः) अन्तरिक्ष में वर्त्तमान (उपमाः) [परस्पर आकर्षण से] तुलना रखनेवाले (विष्ठाः) विशेष स्थानों, अर्थात् (अस्य) इस (सतः) विद्यमान [स्थूल] के (च) और (असतः) अविद्यमान [सूक्ष्म जगत्] के (योनिम्) घर को (च) निश्चय करके (वि वः) खोला है ॥१॥
Connotation: - जगत् के जननी जनक परमेश्वर ने सृष्टि से पूर्व प्राणियों के लिये अन्न आदि पदार्थ बनाये और मूर्त और अमूर्त जगत् के भण्डार आकाश पृथिव्यादि लोक रचे ॥१॥ यह मन्त्र पहिले आ गया है−अ० ४।१।१। यह मन्त्र यजु० १३।३। और सामवेद पूर्वार्चिक अ० ४ द० ३। म० ९ में है ॥
Footnote: १−अयं मन्त्रः पूर्वं व्याख्यातः−अ० ४।१।१। (ब्रह्म) वृद्धिकारणमन्नम् (जज्ञानम्) जायमानम्। दृश्यमानम् (प्रथमम्) प्रख्यातम् (पुरस्तात्) अतीते प्रथमे काले वा। सृष्ट्यादौ (वि) विविधम् (सीमतः) मर्यादातः (सुरुचः) सुष्ठु रोचमानान् लोकान् (वेनः) प्रकाशमानः मेधावी (आवः) वृञ्−लुङ्। विवृतानकरोत् (सः) वेनः (बुध्न्याः) बुध्ने अन्तरिक्षे भवाः सूर्यादयो लोकाः (उपमाः) उपमीयमानाः। मानं प्राप्ताः (अस्य) जगतः (विष्ठाः) विशेषेण स्थिता लोकाः (सतः) मूर्तस्य स्थूलस्य (च) समुच्चये। अवधारणे (योनिम्) गृहम्। आकाशम् (असतः) अविद्यमानस्य सूक्ष्मस्य (वि वः) वृञ्−लुङ्। विवृतमकरोत् ॥