Go To Mantra
Viewed 144 times

शी॑र्षाम॒यमु॑पह॒त्याम॒क्ष्योस्त॒न्वो॒रपः॑। कुष्ठ॒स्तत्सर्वं॒ निष्क॑र॒द्दैवं॑ समह॒ वृष्ण्य॑म् ॥

Mantra Audio
Pad Path

शीर्षऽआमयम् । उपऽहत्याम् । अक्ष्यो: । तन्व: । रप: । कुष्ठ: । तत् । सर्वम् । नि: । करत् । दैवम् । समह । वृष्ण्यम् ॥४.१०॥

Atharvaveda » Kand:5» Sukta:4» Paryayah:0» Mantra:10


PANDIT KSHEMKARANDAS TRIVEDI

राजा के धर्म का उपदेश।

Word-Meaning: - (शीर्षामयम्) शिर के रोग, (अक्ष्योः) दोनों नेत्र के (उपहत्याम्) उपद्रव और (तन्वः) शरीर के (रपः) दोष, (तत् सर्वम्) इस सबको (कुष्ठः) गुणपरीक्षक पुरुष (निष्करत्) बाहिर करे। (समह) हे सत्कार के साथ वर्तमान राजन् ! तेरा (वृष्ण्यम्) जीव का हितकारक बल (दैवम्) दिव्यगुणवाला है ॥१०॥
Connotation: - राजा प्रजा के स्वास्थ्यरक्षा का सदा उपाय करता रहे ॥१०॥
Footnote: १–०−(शीर्षामयम्) बलिमलितनिभ्यः कयन्। उ० ४।९९। इति आङ्+अम रोगे−कयन्, यद्वा मीञ् हिंसायाम्−पचाद्यच्। शिरोरोगम् (उपहत्याम्) हनस्त च। पा० ३।१।१०८। इति उप+हन−क्यप्, नस्य तः। उपहानिमुपद्रवम् (अक्ष्योः) अक्ष्णोः। नेत्रयोः (तन्वः) तन्वाः। शरीरस्य (रपः) दोषम् (कुष्ठः) गुणपरीक्षकः पुरुषः (तत्) (सर्वम्) (निष्करत्) बहिष्कुर्यात् (दैवम्) दिव्यगुणविशिष्टम् (समह) मह पूजायाम्−पचाद्यच्। हे महेन सत्कारेण सह वर्तमान ! (वृष्ण्यम्) अ० ४।४।४। वृष्णे इन्द्राय जीवाय हितम्। बलम्। तव सामर्थ्यमस्ति ॥