Go To Mantra
Viewed 98 times

कृ॑त्या॒कृतं वल॒गिनं॑ मू॒लिनं॑ शपथे॒य्य॑म्। इन्द्र॒स्तं ह॑न्तु मह॒ता व॒धेना॒ग्निर्वि॑ध्यत्व॒स्तया॑ ॥

Mantra Audio
Pad Path

कृत्याऽकृतम् । वलगिनम् । मूलिनम् । शपथेय्यम् । इन्द्र: । तम् । हन्तु । महता । वधेन । अग्नि: । विध्यतु । अस्तया ॥३१.१२॥

Atharvaveda » Kand:5» Sukta:31» Paryayah:0» Mantra:12


PANDIT KSHEMKARANDAS TRIVEDI

राजा के धर्म का उपदेश।

Word-Meaning: - (इन्द्रः) प्रतापी राजा (वलगिनम्) गुप्त काम करनेवाले (मूलिनम्) जड़ पकड़नेवाले, (शपथेय्यम्) कुवचन बोलनेवालों के प्रधान, (कृत्याकृतम्) हिंसा करनेवाले शत्रु को (महता) अपने बड़े (वधेन) वज्र से (हन्तु) मारे और (अग्निः) वही ज्ञानी राजा (अस्तया) अपने अस्त्र से (तम्) उस वैरी को (विध्यतु) वेध डाले ॥१२॥
Connotation: - शूर वीर विद्वान् राजा दुराचारियों को यथावत् खोजकर दण्ड देता रहे ॥१२॥
Footnote: १२−(कृत्याकृतम्) अ० ४।१७।४। हिंसाकारिणम् (वलगिनम्) म० ४। वलग-इनि। आच्छादनकर्माणम् (मूलिनम्) प्राप्तमूलम्। सुदृढम् (शपथेय्यम्) ढश्छन्दसि। पा० ४।४।१०६। इति बाहुलकात् शपथ−ढ। शपथे साधुः शपथेयः। तत्र साधुः। पा० ४।४।९८। इति यत्। शपथेयेषु साधुस्तम्। महाकुवचनकारिणम् (इन्द्रः) परमैश्वर्यः (हन्तु) नाशयतु (महता) विशालेन (वधेन) हननसाधनेन वज्रेण (अग्निः) ज्ञानी राजा (विध्यतु) ताडयतु (अस्तया) हसिमृग्रिण्०। उ० ३।८६। इति असु क्षेपणे−तन्, टाप्। अस्त्रेण ॥ इति षष्ठोऽनुवाकः ॥ इति द्वादशः प्रपाठकः ॥ पञ्चमं काण्डं समाप्तम् ॥ इति श्रीमद्राजाधिराजप्रथितमहागुणमहिमश्रीसयाजीरावगायकवाड़ाधिष्ठितबड़ोदेपुरीगतश्रावणमास-परीक्षायाम् ऋक्सामाथर्ववेदभाष्येषु लब्धदक्षिणेन श्रीपण्डितक्षेमकरणदासत्रिवेदिना कृते अथर्ववेदभाष्ये पञ्चमं काण्डं समाप्तम् ॥