Go To Mantra

नमो॑ य॒माय॒ नमो॑ अस्तु मृ॒त्यवे॒ नमः॑ पि॒तृभ्य॑ उ॒त ये नय॑न्ति। उ॒त्पार॑णस्य॒ यो वेद॒ तम॒ग्निं पु॒रो द॑धे॒ऽस्मा अ॑रि॒ष्टता॑तये ॥

Mantra Audio
Pad Path

नम: । यमाय । नम: । अस्तु । मृत्यवे । नम: । पितृऽभ्य: । उत । ये । नयन्ति । उत्ऽपारणस्य । य: ।वेद । तम् । अग्निम् । पुर: । दधे । अस्मै । अरिष्टऽतातये ॥३०.१२॥

Atharvaveda » Kand:5» Sukta:30» Paryayah:0» Mantra:12


Reads 121 times

PANDIT KSHEMKARANDAS TRIVEDI

आत्मा के उन्नति का उपदेश।

Word-Meaning: - (यमाय) न्यायकारी परमात्मा को (मृत्यवे) मृत्यु नाश करने के लिये (नमः) (नमः) वारंवार नमस्कार (अस्तु) होवे, (उत) और (पितृभ्यः) उन रक्षक महापुरुषों को (नमः) नमस्कार हो (ये) जो [हमें] (नयन्ति) ले चलते हैं। (यः) जो परमेश्वर (उत्पारणस्य) पार लगाना (वेद) जानता है, (तम्) उस (अग्निम्) ज्ञानवान् परमेश्वर को (अस्मै) इस जीव के लिये (अरिष्टतातये) कल्याण करने को (पुरः) आगे (दधे) रखता हूँ [पूजता हूँ] ॥१२॥
Connotation: - मनुष्य परमात्मा की महिमा जानकर और विद्वान् परोपकारी महात्माओं का आदर करके सुखी रहें ॥१२॥
Footnote: १२−(नमः) (नमः) वारंवारं सत्कारः (यमाय) न्यायकारिणे परमात्मने (अस्तु) (मृत्यवे) क्रियार्थोपपदस्य च कर्मणि स्थानिनः। पा० २।३।१४। इत्यप्रयुज्यमानस्य धातोः कर्मणि चतुर्थी। मृत्युं नाशयितुम् (नमः) (पितृभ्यः) रक्षकेभ्यो महापुरुषेभ्यः (उत) अपि (ये) पितरः (नयन्ति) प्रेरयन्ति (उत्पारणस्य) पार कर्मसमाप्तौ−ल्युट्। उत्कर्षेण पारकरणस्य (यः) परमेश्वरः (वेद) वेत्तास्ति (तम्) (अग्निम्) ज्ञानवन्तं परमेश्वरम् (पुरः दधे) अग्रे धरामि। पूजयामि (अस्मै) पुरुषाय (अरिष्टतातये) अ० ३।५।५। क्षेमकरणाय ॥