Go To Mantra
Viewed 101 times

अ॒यम॒ग्निरु॑प॒सद्य॑ इ॒ह सूर्य॒ उदे॑तु ते। उ॒देहि॑ मृ॒त्योर्ग॑म्भी॒रात्कृ॒ष्णाच्चि॒त्तम॑स॒स्परि॑ ॥

Mantra Audio
Pad Path

अयम् । अग्नि: । उपऽसद्य: । इह । सूर्य: । उत् । एतु । ते । उत्ऽएहि । मृत्यो: । गम्भीरात् । कृष्णात् । चित् । तमस: । परि ॥३०.११॥

Atharvaveda » Kand:5» Sukta:30» Paryayah:0» Mantra:11


PANDIT KSHEMKARANDAS TRIVEDI

आत्मा के उन्नति का उपदेश।

Word-Meaning: - (अयम्) यह (अग्निः) सर्वव्यापक परमेश्वर (उपसद्यः) सेवा योग्य है। (इह) इस में (ते) तेरे लिये (सूर्यः) सूर्य (उदेतु) उदय होवे। (गम्भीरात्) गहरे (मृत्योः) मृत्यु से (चित्) और (कृष्णात्) काले (तमसः) अन्धकार से (परि) अलग होकर (उदेहि) तू ऊपर आ ॥११॥
Connotation: - मनुष्य परमात्मा की आज्ञा मानकर और आलस्यरूपी मृत्यु और अज्ञानरूपी अन्धकार मिटा कर उन्नति का सूर्य चमकावे ॥११॥
Footnote: ११−(अयम्) प्रत्यक्षः (अग्निः) सर्वव्यापकः परमेश्वरः (उपसद्यः) सेवनीयः (इह) अत्र। ईश्वरोपासनायाम् (सूर्यः) उन्नतिरूपः सूर्यः (उदेतु) उद्गच्छतु (ते) तुभ्यम् (उदेहि) उदागच्छ (मृत्योः) मरणात्। आलस्यात् (गम्भीरात्) अ० ४।२६।३। गहनात् (कृष्णात्) कालवर्णात् (चित्) अपि (तमसः) अन्धकारात्। अज्ञानात् (परि) पृथग् भूत्वा ॥