Go To Mantra
Viewed 97 times

आ॒वत॑स्त आ॒वतः॑ परा॒वत॑स्त आ॒वतः॑। इ॒हैव भ॑व॒ मा नु गा॒ मा पूर्वा॒ननु॑ गाः पि॒तॄनसुं॑ बध्नामि ते दृ॒ढम् ॥

Mantra Audio
Pad Path

आऽवत: । ते । आऽवत: । पराऽवत: । ते । आ उन्मोचनप्रमोचने इत्युन्मोचनऽप्रमोचने । उभे इति । वाचा । वदामि । ते वत: । इह । एव । भव । मा । नु । गा: । मा । पूर्वान् । अनु । गा: । पितृन् । असुम् । बध्नामि । ते । दृढम् ॥३०.१॥

Atharvaveda » Kand:5» Sukta:30» Paryayah:0» Mantra:1


PANDIT KSHEMKARANDAS TRIVEDI

आत्मा के उन्नति का उपदेश।

Word-Meaning: - (ते) तेरे (आवतः) समीप स्थान से, (आवतः) समीप से (ते) तेरे (परावतः) दूर देश से और (आवतः) अति समीप से [मैं प्रार्थना करता हूँ]। (इह एव) यहाँ ही (भव) रह, (नु) निश्चय करके (मा मा गाः) कभी भी मत जा, (पूर्वान्) पहिले (पितॄन्) पिता आदि लोगों के (अनु) पीछे (गाः=गच्छ) चल। (ते) तेरे (असुम्) प्राण को (दृढम्) दृढ़ (बध्नामि) मैं बाँधता हूँ ॥१॥
Connotation: - मनुष्य विचारपूर्वक उत्साही पुरुषों में रहकर माननीय माता पिता गुरु आदि का अनुकरण करके बल और कीर्ति बढ़ावें ॥१॥
Footnote: १−(आवतः) उपसर्गाच्छन्दसि धात्वर्थे। पा० ५।१।११८। इति उपसर्गाद् धात्वर्थे वर्त्तमानात् स्वार्थे वतिः। आगतात् समीपात् स्थानात् (ते) तव (आवतः) समीपात् (परावतः) परा-वति। दूरगतात् स्थानात् (ते) (आवतः) अतिसमीपात् (इह) उत्साहिनां मध्ये (एव) अवधारणे (भव) तिष्ठ। कीर्तिं प्राप्नुहि (नु) निश्चये (मा मा गाः) अ० ५।१९।९। कदापि मा गच्छ (पूर्वान्) पूर्वजान् (अनु) अनुसृत्य (गाः) लोडर्थे लुङ्। गच्छ (पितॄन्) पितृवत् सत्करणीयान् (असुम्) प्राणम् (बध्नामि) स्थापयामि (ते) तव (दृढम्) दृह वृद्धौ−क्त। प्रगाढम् ॥