Go To Mantra
Viewed 111 times

ये नः॑ स॒पत्ना॒ अप॒ ते भ॑वन्त्विन्द्रा॒ग्निभ्या॒मव॑ बाधामह एनान्। आ॑दि॒त्या रु॒द्रा उ॑परि॒स्पृशो॑ नो उ॒ग्रं चे॒त्तार॑मधिरा॒जम॑क्रत ॥

Mantra Audio
Pad Path

ये । न: । सऽपत्ना: । अप। ते । भवन्तु । इन्द्राग्निऽभ्याम् । अव । बाधामहे । एनान् । आदित्या: । रुद्रा: । उपरिऽस्पृश: । न: । उग्रम् । चेत्तारम् । अधिऽराजम् । अक्रत ॥३.१०॥

Atharvaveda » Kand:5» Sukta:3» Paryayah:0» Mantra:10


PANDIT KSHEMKARANDAS TRIVEDI

रक्षा के उपाय का उपदेश।

Word-Meaning: - (ये) जो (नः) हमारे (सपत्नाः) शत्रु हैं (ते) वे (अपभवन्तु) दूर हो जावें, (इन्द्राग्निभ्याम्) वायु और अग्नि [प्राण और पराक्रम] द्वारा (एनान्) इनको (अव बाधामहे) हम हटाते हैं (आदित्याः) प्रकाशमान, (रुद्राः) दुःखनाशक, (उपरिस्पृशः) उच्च पद धारण करनेवाले पुरुषों ने (चेत्तारम्) सर्वज्ञ, (उग्रम्) तेजस्वी परमात्मा को (नः) हमारा [अधिराजम्] राजाधिराज (अक्रत) बनाया है ॥१०॥
Connotation: - जिस परमात्मा को ऋषि मुनि महात्माओं ने सब संसार का स्वामी साक्षात् किया है, उसी परमात्मा के आश्रय से हम अपने शत्रुओं को जीतें ॥१०॥
Footnote: १०−(ये) (नः) अस्माकम् (सपत्नाः) अ० १।९।२। सहपतनशीलाः। शत्रवः (ते) शत्रवः (अप भवन्तु) अपगताः प्रच्युताः सन्तु (इन्द्राग्नीभ्याम्) वाय्वग्निभ्यां प्राणपराक्रमाभ्यां सह (अवबाधामहे) अव रुन्ध्मः (एनान्) शत्रून् (आदित्याः) म० ९। प्रकाशमानाः (रुद्राः) म० ९। दुःखनाशकाः पुरुषाः (उपरिस्पृशः) उन्नतपदस्य स्प्रष्टारो धर्तारः (नः) अस्माकम् (उग्रम्) तेजस्विनं परमेश्वरम् (चेत्तारम्) इडभावः। चेतितारं सर्वस्य ज्ञातारम् (अधिराजम्) अधीश्वरम् (अक्रत) लुङि छान्दसं रूपम्। अकुर्वत। कृतवन्तः ॥