दिवा॑ मा॒ नक्तं॑ यत॒मो द॒दम्भ॑ क्र॒व्याद्या॑तू॒नां शय॑ने॒ शया॑नम्। तदा॒त्मना॑ प्र॒जया॑ पिशा॒चा वि या॑तयन्तामग॒दो॒यम॑स्तु ॥
दिवा । मा । नक्तम् । यतम: । ददम्भ । क्रव्यऽअत् । यातूनाम् । शयने । शयानम् । तत् । आत्मना । प्रऽजया । पिशाचा: । वि । यातयन्ताम् । अगद: । अयम् ।अस्तु ॥२९.९॥
PANDIT KSHEMKARANDAS TRIVEDI
शत्रुओं और रोगों के नाश का उपदेश।
