Go To Mantra
Viewed 123 times

यद॑स्य हृ॒तं विहृ॑तं॒ यत्परा॑भृतमा॒त्मनो॑ ज॒ग्धं य॑त॒मत्पि॑शा॒चैः। तद॑ग्ने वि॒द्वान्पुन॒रा भ॑र॒ त्वं शरी॑रे मां॒समसु॒मेर॑यामः ॥

Mantra Audio
Pad Path

यत् । अस्य । हृतम् । विऽहृतम् । यत् । पराऽभृतम् । आत्मन: । जग्धम् । यतमत् । पिशाचै: । तत् । अग्ने । विद्वान् । पुन: । आ । भर । त्वम् । शरीरे । मांसम् ।असुम् । आ । ईरयाम: ॥२९.५॥

Atharvaveda » Kand:5» Sukta:29» Paryayah:0» Mantra:5


PANDIT KSHEMKARANDAS TRIVEDI

शत्रुओं और रोगों के नाश का उपदेश।

Word-Meaning: - (पिशाचैः) पिशाचों करके (अस्य) इसके (आत्मनः) शरीर से (यत्) जो (हृतम्) हरा गया, (विहृतम्) लूटा गया, (यत्) जो (पराभृतम्) हटाया गया, और (यतमत्) जो कुछ (जग्धम्) खाया गया है। (अग्ने) हे तेजस्वी पुरुष ! (विद्वान्) विद्वान् (त्वम्) तू (तत्) उसको (पुनः) फिर (आ भर) लाकर भर दे, (शरीरे) इसके शरीर में (मांसम्) मांस और (असुम्) प्राण को (आ ईरयामः) हम स्थापित करते हैं ॥५॥
Connotation: - राजा और वैद्य गण दुःखी प्रजागणों को यथावत् सुख पहुँचावें ॥५॥
Footnote: ५−(यत्) वस्तु (अस्य) पुरुषस्य (हृतम्) गृहीतम् (विहृतम्) अपहृतम् (यत्) (पराभृतम्) दूरे हृतम् (आत्मनः) शरीरात् (जग्धम्) भुक्तम् (यतमत्) यत्किञ्चित् (पिशाचैः) मांसभक्षकैः (तत्) नष्टम् (अग्ने) तेजस्विन् (विद्वान्) पण्डितः (पुनः) (आ भर) आ हर। आनय (त्वम्) (शरीरे) देहे (असुम्) प्राणम् (आ) सम्यक् (ईरयामः) प्रापयामः ॥