Go To Mantra
Viewed 160 times

क्र॒व्याद॑मग्ने रुधि॒रं पि॑शा॒चं म॑नो॒हनं॑ जहि जातवेदः। तमिन्द्रो॑ वा॒जी वज्रे॑ण हन्तु छि॒नत्तु॒ सोमः॒ शिरो॑ अस्य धृ॒ष्णुः ॥

Mantra Audio
Pad Path

क्रव्यऽअदम्। अग्ने । रुधिरम् । पिशाचम् । मन:ऽहनम् । जहि । जातऽवेद: । तम् । इन्द्र: । वाजी । वज्रेण । हन्तु । छिनत्तु । सोम: । शिर: । अस्य । धृष्णु: ॥२९.१०॥

Atharvaveda » Kand:5» Sukta:29» Paryayah:0» Mantra:10


PANDIT KSHEMKARANDAS TRIVEDI

शत्रुओं और रोगों के नाश का उपदेश।

Word-Meaning: - (जातवेदः) हे विद्या में प्रसिद्ध (अग्ने) विद्वान् पुरुष ! (क्रव्यादम्) मांस खानेवाले, (रुधिरम्) रोकनेवाले और (मनोहनम्) मन बिगाड़ देनेवाले (पिशाचम्) राक्षस को (जहि) मार डाल। (तम्) उसको (वाजी) पराक्रमी (इन्द्रः) बड़े ऐश्वर्यवाले आप (वज्रेण) वज्र से (हन्तु) मारें, और (धृष्णुः) निर्भय (सोमः) प्रतापी आप (अस्य) इसका (शिरः) शिर (छिनत्तु) काटें ॥१०॥
Connotation: - नीतिज्ञ राजा पराक्रम करके शत्रुओं को मारकर प्रजा को पाले ॥१०॥
Footnote: १०−(क्रव्यादम्) मांसभक्षकम् (अग्ने) विद्वन् (रुधिरम्) इषिमदिमुदि०। उ० १।५१। इति रुधिर् आवरणे−किरच्। निरोधकम् (पिशाचम्) म० ६। राक्षसम् (मनोहनम्) चित्तहर्षहन्तारम् (जहि) नाशय (जातवेदः) हे प्रसिद्धविद्य ! (तम्) पिशाचम् (इन्द्रः) परमैश्वर्यवान् भवान् (वाजी) पराक्रमी (वज्रेण) शस्त्रेण (हन्तु) मारयतु (छिनत्तु) भिनत्तु (सोमः) प्रतापी भवान् (शिरः) मस्तकम् (अस्य) पिशाचस्य (धृष्णुः) आ० १।१३।४। निर्भयः ॥