Go To Mantra

त्रे॒धा जा॒तं जन्म॑ने॒दं हिर॑ण्यम॒ग्नेरेकं॑ प्रि॒यत॑मं बभूव॒ सोम॒स्यैकं॑ हिंसि॒तस्य॒ परा॑पतत्। अ॒पामेकं॑ वे॒धसां॒ रेत॑ आहु॒स्तत्ते॒ हिर॑ण्यं त्रि॒वृद॒स्त्वायु॑षे ॥

Mantra Audio
Pad Path

त्रेधा । जातम् । जन्मना । इदम् । हिरण्यम् । अग्ने: । एकम् । प्रियऽतमम् । बभूव । सोमस्य । एकम् । हिंसितस्य । परा । अपतत् । अपाम् । एकम् । वेधसाम् । रेत: ।आहु: । तत् । ते । हिरण्यम् । त्रिऽवृत् । अस्तु । आयुषे ॥२८.६॥

Atharvaveda » Kand:5» Sukta:28» Paryayah:0» Mantra:6


Reads 71 times

PANDIT KSHEMKARANDAS TRIVEDI

रक्षा और ऐश्वर्य का उपदेश।

Word-Meaning: - (इदम्) यह प्रसिद्ध (हिरण्यम्) कमनीय तेज [ब्रह्म] (त्रैधा) तीन प्रकार से (जन्मना) जन्म से (जातम्) उत्पन्न हुआ, (एकम्) एक (अग्नेः) अग्नि का (प्रियतमम्) अति प्रीतिवाला (बभूव) हुआ, (एकम्) एक (हिंसितस्य) पीड़ित (सोमस्य) चन्द्रमा का [प्रियतमः] [अतिप्रिय होकर] (परा अपतत्) [सूर्य से] आकर गिरा। (एकम्) एक को (वेधसाम्) विधान करनेवाली (अपाम्) जलधाराओं का (रेतः) बीज (आहुः) वे कहते हैं। (तत्) वह (हिरण्यम्) तेजःस्वरूप ब्रह्म (ते) तेरी (आयुषे) आयु के लिये (त्रिवृत्) त्रिवृति [तीनों जीवनसाधन] (अस्तु) होवे ॥६॥
Connotation: - परमात्मा का तेज तीन प्रकार से प्रकट होता है, १−भौतिक अग्नि में जो पृथिवी के पदार्थों को पकाता है, २−अन्धकारयुक्त चन्द्रमा में जो सूर्य से प्रकाशित होता है, ३−सूर्य में, जो जल को खींचकर मेघमण्डल से बरसाता है। मनुष्य उस तेजोमय परमेश्वर का नित्य ध्यान करके उत्तम पुरुषार्थ आदि त्रिवृति [म० १] को बढ़ावें ॥६॥
Footnote: ६−(त्रेधा) त्रिप्रकारेण (जातम्) उत्पन्नम् (जन्मना) उत्पत्त्या (इदम्) (हिरण्यम्) अ० १।९।२। कमनीयं तेजः। ब्रह्म (अग्नेः) भौतिकाग्नेः (एकम्) (प्रियतमम्) अतिशयप्रीतिकरम् (सोमस्य) चन्द्रस्य (एकम्) तेजः (हिंसितस्य) पीडितस्य। अन्धकारयुक्तस्येत्यर्थः (परा) पृथग्भावे (अपतत्) अधोऽगच्छत् सूर्यमण्डलात् (अपाम्) जलधाराणाम् (एकम्) तेजः (वेधसाम्) विधात्रीणाम् उत्पादयित्रीणाम् (रेतः) बीजम् (आहुः) कथयन्ति विद्वांसः (तत्) पूर्वोक्तम् (हिरण्यम्) (त्रिवृत्) म– २। त्रिवृतिः। त्रिजीवनसाधनम् (अस्तु) भवतु (आयुषे) अ० १।३०।३। जीवनवर्धनाय ॥