Go To Mantra
Viewed 138 times

अ॒ग्निः सूर्य॑श्च॒न्द्रमा॒ भूमि॒रापो॒ द्यौर॒न्तरि॑क्षं प्र॒दिशो॒ दिश॑श्च। आ॑र्त॒वा ऋ॒तुभिः॑ संविदा॒ना अ॒नेन॑ मा त्रि॒वृता॑ पारयन्तु ॥

Mantra Audio
Pad Path

अग्नि: । सूर्य: । चन्द्रमा: । भूमि: । आप: । द्यौ: । अन्तरिक्षम् । प्रऽदिश: । दिश: । च । आर्तवा: । ऋतुऽभि: । सम्ऽविदाना: । अनेन ।मा । त्रिऽवृता । पारयन्तु ॥२८.२॥

Atharvaveda » Kand:5» Sukta:28» Paryayah:0» Mantra:2


PANDIT KSHEMKARANDAS TRIVEDI

रक्षा और ऐश्वर्य का उपदेश।

Word-Meaning: - (अग्निः) अग्नि, (सूर्यः) सूर्य, (चन्द्रमाः) चन्द्रमा, (भूमिः) भूमि, (आपः) जल, (द्यौः) आकाश, (अन्तरिक्षम्) मध्यलोक, (दिशः) दिशायें, (प्रदिशः) विदिशायें (च) और (ऋतुभिः) ऋतुओं से (संविदानाः) मिले हुए (आर्तवाः) ऋतुओं के विभाग (अनेन) इस (त्रिवृता) त्रिवृति [तीन जीवनसाधन म० १] से (मा) मुझे (पारयन्तु) पूर्ण करें ॥२॥
Connotation: - मनुष्य संसार के सब पदार्थों से उपकार, उत्तम पुरुषार्थ आदि [म० १] तीन साधनों से आत्मबल बढ़ावें ॥२॥
Footnote: २−(अग्निः) पावकः (सूर्यः) (चन्द्रमाः) (भूमिः) (आपः) जलानि (द्यौः) आकाशम् (अन्तरिक्षम्) मध्यलोकः (प्रदिशः) अन्तराला दिशः (दिशः) प्राच्याद्याः (आर्तवाः) अ० ३।१०।९। ऋतुभागाः (ऋतुभिः) कालविशेषैः (संविदानाः) अ० २।२८।२। संगच्छमानाः (अनेन) पूर्वोक्तेन (मा) माम् (त्रिवृता) वृञ् वरणे−क्विप् तुक् च। त्रिवर्तनेन। त्रिजीवनसाधनेन हरितरजतायोरूपेण−म० १। (पारयन्तु) पॄ पालनपूरणयोः। पूर्णं कुर्वन्तु ॥