ऊ॒र्ध्वा अ॑स्य स॒मिधो॑ भवन्त्यू॒र्ध्वा शु॒क्रा शो॒चींष्य॒ग्नेः। द्यु॒मत्त॑मा सु॒प्रती॑कः॒ ससू॑नु॒स्तनू॒नपा॒दसु॑रो॒ भूरि॑पाणिः ॥
ऊर्ध्वा: । अस्य । सम्ऽइध: । भवन्ति । ऊर्ध्वा । शुक्रा । शोचीषि । अग्ने: । द्युमत्ऽतमा । सुऽप्रतीक: । सऽसूनु: । तनूऽनपात् । असुर: । भूरिऽपाणि: ॥२७.१॥
PANDIT KSHEMKARANDAS TRIVEDI
पुरुषार्थ का उपदेश।
