Go To Mantra
Viewed 86 times

अश्वि॑ना॒ ब्रह्म॒णा या॑तम॒र्वाञ्चौ॑ वषट्का॒रेण॑ य॒ज्ञं व॒र्धय॑न्तौ। बृह॑स्पते॒ ब्रह्म॒णा या॑ह्य॒र्वाङ् य॒ज्ञो अ॒यं स्व॑रि॒दं यज॑मानाय॒ स्वाहा॑ ॥

Mantra Audio
Pad Path

अश्विना । ब्रह्मणा । आ । यातम् । अर्वाञ्चौ । वषट्ऽकारेण । यज्ञम् । वर्धयन्तौ । बृहस्पते । ब्रह्मणा । आ । याहि । अवाङ् । यज्ञ: । अयम् । स्व: । इदम् । यजमानाय । स्वाहा ॥२६.१२॥

Atharvaveda » Kand:5» Sukta:26» Paryayah:0» Mantra:12


PANDIT KSHEMKARANDAS TRIVEDI

समाज की वृद्धि करने का उपदेश।

Word-Meaning: - (अश्विना) हे कर्मकुशल स्त्री-पुरुषो ! (ब्रह्मणा) वेदज्ञान से, और (वषट्कारेण) दान कर्म से (यज्ञम्) समाज को (वर्धयन्तौ) बढ़ाते हुए (अर्वाञ्चौ) सन्मुख होते हुए (आयातम्) तुम दोदों आवो। (बृहस्पते) हे बड़े-बड़े लोकों के रक्षक परमात्मन् ! (ब्रह्मणा) वृद्धिसाधन के साथ (अर्वाङ्) हमारे सन्मुख (आ याहि) तू आ। (अयम्) यह (यज्ञः) समाज (यजमानाय) संगतिशील पुरुष के लिये (इदम्) ऐश्वर्य देनेवाला (स्वः) सुख होवे, (स्वाहा) यह सुन्दर वाणी है ॥१२॥
Connotation: - विद्वान् स्त्री-पुरुष वेदज्ञान से समाज की उन्नति करते हुए आगे बढ़ें, और परमेश्वर को साक्षी और सहायक जानकर सदा सुखी रहें ॥१२॥ इति पञ्चमोऽनुवाकः ॥
Footnote: १२−(अश्विना) अ० २।२९।६। अश्वो व्याप्तिः−इनि। अश्वी च अश्विनी च। पुमान् स्त्रिया। पा० १।२।६७। इत्येकशेषः। कार्येषु व्याप्तिशीलौ स्त्रीपुरुषौ (ब्रह्मणा) वेदज्ञानेन (आ यातम्) आ गच्छतम् (अर्वाञ्चौ) अ० म० ३।२।३। अस्मदभिमुखौ (वषट्कारेण) अ० १।११।१। वह प्रापणे−उषटि। दानकर्मणा (वर्धयन्तौ) समर्धयन्तौ सन्तौ (बृहस्पते) बृहतां लोकानां रक्षक जगदीश्वर (ब्रह्मणा) अस्माकं वृद्धिसाधनेन सह (आ याहि) आ गच्छ। साक्षाद् भव (अर्वाङ्) अ० ३।२।३। अभिमुखः सन् (यज्ञः) संगमः। समाजः (अयम्) दृश्यमानः (स्वः) सुखम् (इदम्) इन्देः कमिन्नलोपश्च। उ० ४।१५७। इति इदि परमैश्वर्ये−कमिन्। ऐश्वर्यकरम् (यजमानाय) संगतिशीलाय (स्वाहा) सुवाणी भवतु ॥