Go To Mantra
Viewed 137 times

वि जि॑हीष्व बार्हत्सामे॒ गर्भ॑स्ते॒ योनि॒मा श॑याम्। अदु॑ष्टे दे॒वाः पु॒त्रं सो॑म॒पा उ॑भया॒विन॑म् ॥

Mantra Audio
Pad Path

वि । जिहीष्व । बार्हत्ऽसामे । गर्भ:। ते । योनिम् । आ । शयाम् । अदु: । ते । देवा: । पुत्रम् । सोमऽपा: । उभयाविनम् ॥२५.९॥

Atharvaveda » Kand:5» Sukta:25» Paryayah:0» Mantra:9


PANDIT KSHEMKARANDAS TRIVEDI

गर्भाधान का उपदेश।

Word-Meaning: - (बार्हत्सामे) हे अत्यन्त करके प्रिय कर्म वा सामवेद जाननेवाली पत्नी ! तू (वि) विशेष करके (जिहीष्व) उद्योग कर, (गर्भः) सन्तानजनक सामर्थ्य (ते) तेरे (योनिम्) गर्भ आशय में (आ शयाम्=शेताम्) प्राप्त हो। (सोमपाः) अमृत पान करनेवाले (देवाः) उत्तम गुणों ने (उभयाविनम्) दोनों [माता-पिता] की रक्षा करनेवाला (पुत्रम्) कुलशोधक सन्तान (अदुः) दिया है ॥९॥
Connotation: - बलवती गुणवती स्त्री प्रयत्नपूर्वक उत्तम सन्तान उत्पन्न करे ॥९॥
Footnote: ९−(वि) विशेषण (जिहीष्व) ओहाङ् गतौ−लोट्। गच्छ। उद्योगं कुरु (बार्हत्सामे) नामन्सीमन्०। उ० ४।१५१। इति बृहत्+साम सान्त्वने−मनिन्, मलोपः। तदधीते तद्वेद। पा० ४।२।५९। इति बृहत्सामन्−अण्। अजाद्यतष्टाप्। पा० ४।१।४। इति टाप्। बृहत् साम सान्त्वनं प्रियकरणं सामवेदं वा जानाति या सा बार्हत्सामा। तत्सम्बुद्धौ (गर्भः) सन्तानजनकं सामर्थ्यम् (ते) तत्र (योनिम्) गर्भाशयम् (आशयाम्) तलोपः। आशेताम्। प्राप्नोतु (अदुः) दत्तवन्तः (ते) तुभ्यम् (देवाः) दिव्यगुणाः (पुत्रम्) अ० १।११।५। कुलशोधकं सन्तानम् (सोमपाः) अमृतपानशीलाः (उभयाविनम्) उभय−आविनम्। सुप्यजातौ णिनिस्ताच्छील्ये पा० ३।२।७८। इति उभय+अव रक्षणे−णिनि। उभयोर्मातापित्रो रक्षकम् ॥