Viewed 76 times
ग॒न्धारि॑भ्यो॒ मूज॑व॒द्भ्योऽङ्गे॑भ्यो म॒गधे॑भ्यः। प्रै॒ष्यन् जन॑मिव शेव॒धिं त॒क्मानं॒ परि॑ दद्मसि ॥
Pad Path
गन्धारिभ्य: । मूजवत्ऽभ्य:। अङ्गेभ्य: । मगधेभ्य: । प्रऽएष्यन् । जनम्ऽइव । शेवऽधिम् ।तक्मानम् । परि । दद्मसि ॥२२.१४॥
Atharvaveda » Kand:5» Sukta:22» Paryayah:0» Mantra:14
PANDIT KSHEMKARANDAS TRIVEDI
रोग नाश करने का उपदेश।
Word-Meaning: - (गन्धारिभ्यः) हिंसा पहुँचानेवाले, (मूजवद्भ्यः) मूँज आदि घासवाले, (अङ्गेभ्यः) अप्रधान और (मगधेभ्यः) दोष धारण करनेवाले देशों के लिये (जनम् इव) पामर पुरुष के समान, (शेवधिम्) सोने के आधार (तक्मानम्) दुःखित जीवन करनेवाले ज्वर को (प्रैष्यन्=प्रैष्यन्तः) आगे बढ़ते हुए (परि दद्मसि) हम त्यागते हैं ॥१४॥
Connotation: - हिंसा आदि अशुद्ध व्यवहारों से ज्वर आदि रोग होते हैं। इस से मनुष्य शुद्ध व्यवहार रखकर सदा नीरोग रहें ॥१४॥
Footnote: १४−(गन्धारिभ्यः) गन्ध−आरिभ्यः। गन्ध हिंसागतियाचनेषु−अच्। वसिवपियजि०। उ० ४।१२५। इति गन्ध+ऋ गतौ−इञ्। हिंसाप्रापकेभ्यः (मूजवद्भ्यः) म० ५। मुञ्जादितृणयुक्तेभ्यः (अङ्गेभ्यः) अङ्ग लक्षणे−अच्। अङ्गेति क्षिप्रनामाञ्चितमेवाङ्कितं भवति−निरु० ५।१७। अप्रधानेभ्यः (मगधेभ्यः) मगि सर्पणे−अच्। मगं दोषं दधातीति। आतोऽनुपसर्गे कः। पा० ३।२।३। इति मग+धा−क। दोषधारकेभ्यो देशेभ्यः (प्रैष्यन्) प्र+इण् गतौ−लृटः शतृ, एकवचनं छान्दसम्। प्रैष्यन्तः। प्रगमिष्यन्तः (जनम्) पामरं पुरुषम् (इव) यथा (शेवधिम्) इण्शीभ्यां वन्। उ० १।१५२। इति शीङ् स्वप्ने−वन्। कर्मण्यधिकरणे च। पा० ३।३।५३। इति शेव+धाञ्−कि। शयनाधारम् (तक्मानम्) कृच्छ्रजीवनकरं ज्वरम् (परि दद्मसि) परि त्यजामः ॥
