Go To Mantra
Viewed 81 times

तृती॑यकं वितृती॒यं स॑द॒न्दिमु॒त शा॑र॒दम्। त॒क्मानं॑ शी॒तं रू॒रं ग्रैष्मं॑ नाशय॒ वार्षि॑कम् ॥

Mantra Audio
Pad Path

तृतीयकम् । विऽतृतीयम् । सदम्ऽदिम् । उत । शारदम् । तक्मानम् । शीतम् । रूरम् । ग्रैष्मम् । नाशय । वार्षिकम् ॥२२.१३॥

Atharvaveda » Kand:5» Sukta:22» Paryayah:0» Mantra:13


PANDIT KSHEMKARANDAS TRIVEDI

रोग नाश करने का उपदेश।

Word-Meaning: - [हे वैद्य !] (तृतीयकम्) तिजारी, (वितृतीयम्) चौथिया आदि अन्तरिया, (सदन्दिम्) सदा फूटन करनेवाले, निरन्तरा (उत्) और (शारदम्) शरद ऋतु में आनेवाले, (शीतम्) शीत, (रूरम्) क्रूर, (ग्रैष्मम्) ग्रीष्म में आनेवाले, (वार्षिकम्) वर्षा में होनेवाले (तक्मानम्) दुःखित जीवन करनेवाले ज्वर को (नाशय) मिटा दे ॥१३॥
Connotation: - सद्वैद्य देश, काल, स्वभाव आदि का विचार करके मनुष्यों को स्वस्थ रक्खे ॥१३॥
Footnote: १३−(तृतीयकम्) अ० १।२५।४। तृतीयदिने आगच्छन्तम् (वितृतीयम्) तृतीयदिनाद् भिन्नम् (सदन्दिम्) सदम् इत्यव्ययं सदेत्यर्थे। उपसर्गे घोः किः। पा० ३।३।९२। इति सदम्+दो अवखण्डने−कि। सदा खण्डकं पीडकम्। निरन्तरम् (उत) अपि (शारदम्) शरद्−अण्। शरदि भवम् (तक्मानम्) दुःखकरं ज्वरम् (शीतम्) अ० १।२५।४। शीतस्पर्शम् (रूरम्) म० १०। क्रूरम् (ग्रैष्मम्) घर्मग्रीष्मौ। उ० १।१४९। इति ग्रसु अदने−मक्, ग्री भावः, षुक् च। ग्रीष्म−अण्। ग्रीष्मे भवम् (नाशय) नष्टं कुरु (वार्षिकम्) अ० ४।१९।१। वर्षासु भवम् ॥