Go To Mantra
Viewed 89 times

अ॒ग्निस्त॒क्मान॒मप॑ बाधतामि॒तः सोमो॒ ग्रावा॒ वरु॑णः पू॒तद॑क्षाः। वेदि॑र्ब॒र्हिः स॒मिधः॒ शोशु॑चाना॒ अप॒ द्वेषां॑स्यमु॒या भ॑वन्तु ॥

Mantra Audio
Pad Path

अग्नि: । तक्मानम् । अप । बाधताम् । इत: । सोम: । ग्रावा । वरुण: । पूतऽदक्षा । वेदि: । बर्हि: । सम्ऽइध: । शोशुचाना: । अप । द्वेषांसि । अमुया । भवन्तु ॥२२.१॥

Atharvaveda » Kand:5» Sukta:22» Paryayah:0» Mantra:1


PANDIT KSHEMKARANDAS TRIVEDI

रोग नाश करने का उपदेश।

Word-Meaning: - (अग्निः) ज्ञानवान्, (सोमः) तत्त्व मन्थन करनेवाला, (ग्रावा) सूक्ष्मदर्शी, (वरुणः) वरणयोग्य, (पूतदक्षाः) पवित्रबल करनेवाला, (शोशुचानाः) बहुत जलते हुए (समिधः) इन्धन के समान (बर्हिः) प्रकाशमान (वेदिः) पण्डित (इतः) यहाँ से (तक्मानम्) दुःखित जीवन करने हारे ज्वर को (अप बाधताम्) निकाल देवे। (द्वेषांसि) हमारे सब अनिष्ट (अमुया) उधर (अप भवन्तु) हट जावें ॥१॥
Connotation: - जिस प्रकार सद्वैद्य रोगों की चिकित्सा करता है, उसी प्रकार सब मनुष्य आत्मदोषों का प्रतीकार करें ॥१॥
Footnote: १−(अग्निः) विद्वान् (तक्मानम्) अ० १।२५।१। कृच्छ्रजीवनकरं ज्वरम् (अप बाधताम्) निवारयतु (इतः) अस्माद् देशात् पुरुषाद्वा (सोमः) तत्त्वमन्थिता (ग्रावा) अ० ५।२०।१०। शास्त्रविज्ञापकः। सूक्ष्मदर्शी (वरुणः) वरणयोग्यः। श्रेष्ठः (पूतदक्षाः) दक्ष वृद्धौ शैघ्र्ये च−असुन्। दक्षो बलनाम−निघ० २।९। पूतं पवित्रं दक्षो बलं यस्मात् सः (वेदिः) हृपिषिरुहिवृतिविदि०। उ० ४।११९। इति विद ज्ञाने−इन्। पण्डितः (बर्हिः) बृंहेर्नलोपश्च। उ० २।१०९। इति बृहि वृद्धौ दीप्तौ च−इसि। प्रवृद्धं कर्म। दीप्तियुक्तः (समिधः) सम्+ञिइन्धी दीप्तौ−क्विप्। इन्धनानि (शोशुचानाः) अ० ४।११।३। देदीप्यमानाः (अप) अपगतानि (द्वेषांसि) अप्रियाणि वस्तूनि (अमुया) सुपां सुलुक्०। पा० ७।१।३९। इति विभक्तेर्याच्। परस्मिन्देशे (भवन्तु) सन्तु ॥