Viewed 73 times
यैरिन्द्रः॑ प्र॒क्रीड॑ते पद्घो॒षैश्छा॒यया॑ स॒ह। तैर॒मित्रा॑स्त्रसन्तु नो॒ऽमी ये यन्त्य॑नीक॒शः ॥
Pad Path
यै: । इन्द्र: । प्रऽक्रीडते । पत्ऽघोषै: । छायया । सह । तै: । अमित्रा: । त्रसन्तु । न: । अमी इति । ये । यन्ति । अनीकऽश: ॥२१.८॥
Atharvaveda » Kand:5» Sukta:21» Paryayah:0» Mantra:8
PANDIT KSHEMKARANDAS TRIVEDI
शत्रुओं को जीतने को उपदेश।
Word-Meaning: - (इन्द्रः) ऐश्वर्यवान् सेनापति (छायया सह) छाया के साथ (यैः) जिन (पद्घोषैः) पैरों के खटकों से (प्रक्रीडते) क्रीड़ा करता रहता है, (तैः) उनसे (नः) हमारे (अमी) वे (अमित्र्याः) शत्रु (त्रसन्तु) डर जावें (ये) जो (अनीकशः) श्रेणी-श्रेणी (यन्ति) चलते हैं ॥८॥
Connotation: - चतुर शीघ्रगामी सेनापति की छाया और पैरों के आहट से शत्रु के दल के दल भाग जावें ॥८॥
Footnote: ८−(यैः) (इन्द्रः) ऐश्वर्यवान् सेनापतिः (प्रक्रीडते) विहरति (पद्घोषैः) स्वपादशब्दैः (छायया) स्वप्रतिविम्बेन (सह) सहितः (तैः) पद्घोषैः (अमित्राः) शत्रवः (त्रसन्तु) बिभ्यतु (नः) अस्माकम् (अमी) दृश्यमानाः (ये) शत्रवः (यन्ति) गच्छन्ति (अनीकशः) संख्यैकवचनाच्च वीप्सायाम्। पा० ५।४।४३। इति अनीक−शस्। सेनाखण्डशः। श्रेण्या श्रेण्या ॥
