Viewed 82 times
विहृ॑दयं वैमन॒स्यं वदा॒मित्रे॑षु दुन्दुभे। वि॑द्वे॒षं कश्म॑शं भ॒यम॒मित्रे॑षु॒ नि द॑ध्म॒स्यव॑ एनान्दुन्दुभे जहि ॥
Pad Path
विऽहृदयम् । वैमनस्य । वद । अमित्रेषु । दुन्दुभे । विऽद्वेषम् । कश्मशम् । भयम् । अमित्रेषु । नि । दध्मसि। अव । एनान् । दुन्दुभे । जहि ॥२१.१॥
Atharvaveda » Kand:5» Sukta:21» Paryayah:0» Mantra:1
PANDIT KSHEMKARANDAS TRIVEDI
शत्रुओं को जीतने को उपदेश।
Word-Meaning: - (दुन्दुभे) हे दुन्दुभि वा ढोल ! (अमित्रेषु) वैरियों में (विहृदयम्) हृदय व्याकुल करने हारी (वैमनस्यम्) मन की ग्लानि (वद) कह दे। (विद्वेषम्) फूट, (कश्मशम्) गति की रोक और (भयम्) भय (अमित्रेषु) वैरियों के बीच (निदध्मसि) हम डाले देते हैं। (दुन्दुभे) हे दुन्दुभि ! (एनान्) इन [शत्रुओं] को (अव जहि) निकाल दे ॥१॥
Connotation: - जैसे पराक्रमी शूर के दुन्दुभि आदि बजने पर शत्रु लोग डावाँडोल होकर भाग जाते हैं, वैसे ही विद्वान् पुरुष के विज्ञान द्वारा काम क्रोध आदि नष्ट हो जाते हैं ॥१॥
Footnote: १−(विहृदयम्) वि विकृतं हृदयं यस्मात् तत् (वैमनस्यम्) विमनसो भावः−ष्यञ्। मनोग्लानिम् (वद) ज्ञापय (अमित्रेषु) अ० १।१९।२। पीडकेषु शत्रुषु (दुन्दुभे) सू० २० म० १। हे बृहड्ढक्के (विद्वेषम्) वैरिभावम् (कश्मशम्) कश गतिशासनयोः−क्विप्+मष हिंसायाम्−घञर्थे क, षस्य शः। कशः गतेः प्रवृत्तेर्मशं नाशम् (भयम्) दरम् (निदध्मसि) निरंतरं धारयामः (अव) दूरे (एनान्) शत्रून् (जहि) हन हिंसागत्योः। गमय ॥
