धी॒भिः कृ॒तः प्र व॑दाति॒ वाच॒मुद्ध॑र्षय॒ सत्व॑ना॒मायु॑धानि। इन्द्र॑मेदी॒ सत्व॑नो॒ नि ह्व॑यस्व मि॒त्रैर॒मित्राँ॒ अव॑ जङ्घनीहि ॥
धीभि: । कृत: । प्र । वदाति । वाचम् । उत् । हर्षय । सत्वनाम् । आयुधानि । इन्द्रऽमेदी । सत्वन: । नि । ह्वयस्व । मित्रै: । अमित्रान् । अव । जङ्घनीहि ॥२०.८॥
PANDIT KSHEMKARANDAS TRIVEDI
संग्राम में जय का उपदेश।
