वृषे॑व यू॒थे सह॑सा विदा॒नो ग॒व्यन्न॒भि रु॑व संधनाजित्। शु॒चा वि॑ध्य॒ हृद॑यं॒ परे॑षां हि॒त्वा ग्रामा॒न्प्रच्यु॑ता यन्तु॒ शत्र॑वः ॥
वृषाऽइव । यूथे । सहसा । विदान: । गव्यन् । अभि । रुव । संधनऽजित् । शुचा । विध्य । हृदयम् । परेषाम् । हित्वा । ग्रामान् । प्रऽच्युता: । यन्तु । शत्रव: ॥२०.३॥
PANDIT KSHEMKARANDAS TRIVEDI
संग्राम में जय का उपदेश।
