Go To Mantra
Viewed 96 times

सिं॒ह इ॑वास्तानीद्द्रु॒वयो॒ विब॑द्धोऽभि॒क्रन्द॑न्नृष॒भो वा॑सि॒तामि॑व। वृषा॒ त्वं वध्र॑यस्ते स॒पत्ना॑ ऐ॒न्द्रस्ते॒ शुष्मो॑ अभिमातिषा॒हः ॥

Mantra Audio
Pad Path

सिंह:ऽइव । अस्तानीत् । द्रुवय: । विऽबध्द: । अभिऽक्रन्दन् । ऋषभ: । वासिताम्ऽइव । वृषा । त्वम् । वध्रय: । ते । सऽपत्ना: । ऐन्द्र: । ते । शुष्म: । अभिमातिऽसह: ॥२०.२॥

Atharvaveda » Kand:5» Sukta:20» Paryayah:0» Mantra:2


PANDIT KSHEMKARANDAS TRIVEDI

संग्राम में जय का उपदेश।

Word-Meaning: - (वासिताम्) गौ पर (अभिक्रन्दन्) दहाड़ते हुए (ऋषभः इव) बलीवर्द के समान, (विबद्धः) विशेष करके जकड़ा हुआ (द्रुवयः) वह ढाँचा (सिंहः इव) सिंह के समान (अस्तानीत्) गरजा। (त्वम्) तू (वृषा) बलवान् है, (ते) तेरे (सपत्नाः) वैरी लोग (वध्रयः) निर्बल हैं, (ते) तेरा (ऐन्द्रः) ऐश्वर्यवान् (शुष्मः) बल (अभिमातिषाहः) अभिमानियों को हरानेवाला है ॥२॥
Connotation: - शूर वीर सेनापति पूर्ण पराक्रम करके शत्रुओं को जीते ॥२॥
Footnote: २−(सिंहः इव) (अस्तानीत्) अगर्जीत् (द्रुवयः) वलिमलितनिभ्यः कयन्। उ० ४।९९। इति द्रु गतौ−कयन्। कलेवरम्। दुन्दुभिरित्यर्थः (विबद्धः) विशेषेण बद्धः (अभिक्रन्दन्) अभितः शब्दं कुर्वन् (ऋषभः) बलीवर्दः (वासिताम्) दृश्याभ्यामितन्। उ० ३।९३। इति वस निवासे−इतन्, स च णित्। उस्राम्। गाम् (इव) यथा (वृषा) ऐश्वर्यवान् (त्वम्) दुन्दुभे (वध्रयः) अ० ३।९।२। निवीर्याः (ते) तव (सपत्नाः) शत्रवः (ऐन्द्रः) इन्द्र−अण्। ऐश्वर्यवान् (ते) (शुष्मः) बलम् (अभिमातिषाहः) अभिमानिनां जेता ॥