Go To Mantra
Viewed 167 times

ए॒वा म॒हान्बृ॒हद्दि॑वो॒ अथ॒र्वावो॑च॒त्स्वां त॒न्वमिन्द्र॑मे॒व। स्वसा॑रौ मात॒रिभ्व॑री अरि॒प्रे हि॒न्वन्ति॑ चैने॒ शव॑सा व॒र्धय॑न्ति च ॥

Mantra Audio
Pad Path

एव । महान् । बृहत्ऽदिव: । अथर्वा । अवोचत् । स्वाम् । तन्वम् । इन्द्रम् । एव । स्वसारौ । मातरिभ्वरी इति । अरिप्रे इति । हिन्वन्ति । च । एने इति । शवसा । वर्धयन्ति । च ॥२.९॥

Atharvaveda » Kand:5» Sukta:2» Paryayah:0» Mantra:9


PANDIT KSHEMKARANDAS TRIVEDI

परमेश्वर के गुणों का उपदेश।

Word-Meaning: - (महान्) महान्, (बृहद्दिवः) बड़े व्यवहारवाले, (अथर्वा) निश्चलस्वभाव पुरुष ने (स्वाम्) अपनी (तन्वम्) विस्तृत स्तुति (इन्द्रम्) परमेश्वर के लिये (एव) इस प्रकार से (अवोचत्) कही है। (मातरिभ्वरी) आकाश में वर्तमान (स्वसारौ) अच्छे प्रकार ग्रहण करनेवाले वा गतिवाले [वा दो बहिनों के समान सहायकारी] दिन और रात (च) और (अरिप्रे) निर्दोष (एने) यह दोनों [सूर्य और पृथिवी] (शवसा) अपने सामर्थ्य से [उसी को] (हिन्वन्ति) प्रसन्न करती (च) और (वर्धयन्ति) सराहती हैं ॥९॥
Connotation: - हम से पहिले ऋषियों ने भी उसी परमात्मा की स्तुति की है, और दिन रात आदि काल और सूर्य पृथिवी आदि सब लोक उसी के आज्ञाकारी हैं ॥९॥
Footnote: ९−(एव) एवम् (महान्) गुणैरधिकः (बृहद्दिवः) म० ८। बृहद्व्यवहारवान् (अथर्वा) अ० ४।१।७। निश्चलो मनुष्यः (अवोचत्) वचेर्लुङ्। प्रोक्तवान् (स्वाम्) आत्मीयाम् (तन्वम्) विस्तृतां स्तुतिम्, इति सायणः−ऋ० १०।१२०।९। (इन्द्रम्) परमेश्वरं प्रति (एव) निश्चयेन (स्वसारौ) स्वसा सु असा स्वेषु सीदतीति वा−निरु० ११।३२। सावसेर्ऋन्। उ० २।९६। इति सु+असु क्षेपणे, यद्वा अस दीप्तौ, ग्रहणे, गतौ, सत्तायां च−ऋन्। सुष्ठु ग्रहणशीले गतिशीले वा यद्वा भगिन्यौ यथा सह दृश्यमाने। अहोरात्रौ (मातरिभ्वरी) अन्येभ्योऽपि दृश्यन्ते। पा० ३।२।७५। इति मातरि+भू सत्तायाम्−वनिप्, स च डित्। वनो र च। पा० ४।१।७। इति ङीब्रेफौ। वा छन्दसि। पा० ६।१।१०६। इति जसि पूर्वसवर्णदीर्घः। मातर्यन्तरिक्षे [निरु० ७।२६] वर्तमाने (अरिप्रे) रप व्यक्तायां वाचि−रक्। रपो रिप्रमिति पापनामनी भवतः−निरु० ४।२१। निर्दोषे (हिन्वन्ति) हिवि प्रीणने। प्रीणयन्ति तर्पयन्ति (च) समुच्चये (एने) दृश्यमाने द्यावापृथिव्यौ (शवसा) स्वसामर्थ्येन (वर्धयन्ति) स्तुवन्ति (च) समुच्चये ॥