Go To Mantra

इ॒मा ब्रह्म॑ बृ॒हद्दि॑वः कृणव॒दिन्द्रा॑य शू॒षम॑ग्रि॒यः स्व॒र्षाः। म॒हो गो॒त्रस्य॑ क्षयति स्व॒राजा॒ तुर॑श्चि॒द्विश्व॑मर्णव॒त्तप॑स्वान् ॥

Mantra Audio
Pad Path

इमा । ब्रह्म । बृहत्ऽदिव: । कृणवत् । इन्द्राय । शूषम् । अग्रिय: । स्व:ऽसा: । मह: । गोत्रस्य । क्षयति । स्वऽराजा । तुर: । चित् । विश्वम् । अर्णवत् । तपस्वान् ॥२.८॥

Atharvaveda » Kand:5» Sukta:2» Paryayah:0» Mantra:8


Reads 148 times

PANDIT KSHEMKARANDAS TRIVEDI

परमेश्वर के गुणों का उपदेश।

Word-Meaning: - (बृहद्दिवः) बड़े व्यवहार वा गतिवाला, (अग्रियः) अगुआ और (स्वर्षाः) स्वर्ग का सेवन करनेवाला पुरुष (इन्द्राय) परमेश्वर के लिये (इमा) इन (ब्रह्म=ब्रह्माणि) बड़े स्तोत्रों को (शूषम्) अपना बल (कृणवत्) बनावे। (स्वराजा) वह स्वतन्त्र राजा परमेश्वर (महः) बड़े (गोत्रस्य) भूपति राजा का (क्षयति) राजा है, और वह (तुरः) शीघ्र स्वभाव, (तपस्वान्) सामर्थ्यवाला परमात्मा (चित्) ही (विश्वम्) सब जगत् में (अर्णवत्) व्यापता है ॥८॥
Connotation: - मनुष्य जगदीश्वर परम पिता के गुण जान कर अपना बल बढ़ावें ॥८॥
Footnote: ८−(इमा) इमानि (ब्रह्म) ब्रह्माणि बृहन्ति स्तोत्राणि (बृहद्दिवः) इगुपधज्ञाप्रीकिरः कः। पा० ३।१।१३५। इति बृहत्+दिवु क्रीडाविजिगीषाव्यवहारस्तुतिगत्यादिषु−क। बृहद्व्यवहारवान्। महागतिमान् पुरुषः (कृणवत्) कृवि हिंसाकरणयोः−लेट्। कुर्यात् (इन्द्राय) परमेश्वराय (शूषम्) बलनाम−निघ० २।९। स्वबलम् (अग्रियः) घच्छौ च। पा० ४।४।११७। इति अग्र−घ। अग्रे भवः। श्रेष्ठः (स्वर्षाः) जनसनखनक्रम०। पा० ३।२।६७। इति षण सम्भक्तौ दाने च−विट्। विड्वनोरनुनासिकस्यात्। पा० ६।४।४१। इत्यात्वम्। सनोतेरनः। पा–० ८।३।१०८। इति षत्वम्। स्वर्गस्य सम्भक्ता सेवनकर्ता (महः) महतः (गोत्रस्य) गो+त्रैङ् रक्षणे−क। गोः पृथिव्या रक्षकस्य पुरुषस्य (क्षयति) क्षि ऐश्ये। ईष्टे (स्वराजा) स्वतन्त्रः स्वामी (तुरः) शीघ्रस्वभावः (चित्) एव (विश्वम्) सर्वं जगत् (अर्णवत्) ऋण गतौ−लडर्थे लेट्। अर्णोति। व्याप्नोति (तपस्वान्) ऐश्वर्यवान् ॥