Go To Mantra
Viewed 155 times

तदिदा॑स॒ भुव॑नेषु॒ ज्येष्ठं॒ यतो॑ य॒ज्ञ उ॒ग्रस्त्वे॒षनृ॑म्णः। स॒द्यो ज॑ज्ञा॒नो नि रि॑णाति॒ शत्रू॒ननु॒ यदे॑नं॒ मद॑न्ति॒ विश्व॒ ऊमाः॑ ॥

Mantra Audio
Pad Path

तत् । इत् । आस । भुवनेषु । ज्येष्ठम् । यत: । जज्ञे । उग्र: । त्वेषऽनृम्ण: । सद्य: । जज्ञान: । नि । रिणाति । शत्रून् । अनु । यत् । एनम् । मदन्ति । विश्वे । ऊमा: ॥२.१॥

Atharvaveda » Kand:5» Sukta:2» Paryayah:0» Mantra:1


PANDIT KSHEMKARANDAS TRIVEDI

परमेश्वर के गुणों का उपदेश।

Word-Meaning: - (तत्) विस्तीर्ण ब्रह्म (इत्) ही (भुवनेषु) लोकों के भीतर (ज्येष्ठम्) सब में उत्तम और सब में बड़ा (आस) प्रकाशमान हुआ (यतः) जिस ब्रह्म से (उग्रः) तेजस्वी (त्वेषनृम्णः) तेजोमय बल वा धनवाला पुरुष (जज्ञे) प्रकट हुआ। (सद्यः) शीघ्र (जज्ञानः) प्रकट होकर (शत्रून्) गिरानेवाले विघ्नों को (नि रिणाति) नाश कर देता है। (यत्) जिससे (एनम् अनु) इस [परमात्मा] के पीछे-पीछे (विश्वे) सब (ऊमाः) परस्पर रक्षक लोग (मदन्ति) हर्षित होते हैं ॥१॥
Connotation: - आदि कारण परमात्मा की उपासना से मनुष्य वीर होकर शत्रुओं को मारता है, जिसके कारण सब लोग प्रसन्न होते हैं। उस जगदीश्वर की उपासना सब लोग किया करें ॥१॥ यह सूक्त कुछ भेद से ऋग्वेद में है−म० १० सू० १२०। वहाँ बृहद्दिव आथर्वण ऋषि हैं। यह मन्त्र कुछ भेद से यजु० में है−अ–० ३३ म० ८० ॥
Footnote: १−(तत्) विस्तृतं ब्रह्म (इत्) एव (आस) अस गतिदीप्त्यादानेषु लिट्। दिदीपे (भुवनेषु) सत्सु लोकेषु (ज्येष्ठम्) प्रशस्ततमम्। वृद्धतमम् (यतः) यस्माद् ब्रह्मणः (जज्ञे) प्रादुर्बभूव (उग्रः) प्रचण्डः। तेजस्वी (त्वेषनृम्णः) त्विष दीप्तौ−घञ्। नृम्णं बलनाम−निघ० २।९। धननाम−निघ० २।१०। नृम्णं बलं नॄन् नतम्−निरु० ११।९। नृनमनशब्दस्य वर्णलोपादौ नृम्णमिति रूपम्। त्वेषः कान्तिर्नृम्णं बलं धनं वा यस्य सः। तेजोबलः। तेजोधनः पुरुषः (सद्यः) शीघ्रम् (जज्ञानः) जनेर्लिटः कानच्। जातः सन् (नि) नितराम् (रिणाति) रि गतिरेषणयोः। हिनस्ति (शत्रून्) शातयितॄन्। विघ्नान् (अनु) अनुसृत्य। पश्चात् (यत्) यस्मात्कारणात् (एनम्) परमात्मानम् (मदन्ति) हृष्यन्ति (विश्वे) सर्वे (ऊमाः) अविसिविसिशुषिभ्यः कित्। उ० १।१४४। इति अव रक्षणे−मन्। ज्वरत्वरस्रिव्यवि। पा० ६।४।२०। इति ऊठ्। रक्षादिकर्मकर्तारः पुरुषाः ॥