Go To Mantra
Viewed 109 times

निर्वै क्ष॒त्रं नय॑ति हन्ति॒ वर्चो॒ऽग्निरि॒वार॑ब्धो॒ वि दु॑नोति॒ सर्व॑म्। यो ब्रा॑ह्म॒णं मन्य॑ते॒ अन्न॑मे॒व स वि॒षस्य॑ पिबति तैमा॒तस्य॑ ॥

Mantra Audio
Pad Path

नि: । वै । क्षत्रम् । नयति । हन्ति । वर्च: । अग्नि:ऽइव । आऽरब्ध: । वि । दुनोति । सर्वम् । य: । ब्राह्मणम् । मन्यते । अन्नम् । एव । स: । विषस्य । पिबति । तैमातस्य ॥१८.४॥

Atharvaveda » Kand:5» Sukta:18» Paryayah:0» Mantra:4


PANDIT KSHEMKARANDAS TRIVEDI

वेदविद्या की रक्षा का उपदेश।

Word-Meaning: - (यः) जो मनुष्य (ब्राह्मणम्) ब्रह्मज्ञानी को (अन्नम्) अन्न (एव) ही (मन्यते) मानता है, (सः) वह (तैमातस्य) जल में भीगे (विषस्य) विष का (पिबति) पान करता है, (वै) निश्चय करके (क्षत्रम्) अपना धन वा बल (निर् नयति) बाहिर फेंकता है, (वर्चः) अपना तेज (हन्ति) खोता है, और (आरब्धः) चारों ओर से लगी हुई (अग्निः इव) अग्नि के समान (सर्वम्) अपना सब कुछ (वि दुनोति) जला देता है ॥४॥
Connotation: - वेदज्ञानियों को सतानेवाला पुरुष अज्ञान के कारण अपने आप ही अपना नाश कर लेता है ॥४॥
Footnote: ४−(निर्) बहिर्भावे (वै) निश्चयेन (क्षत्रम्) अ० २।१५।४। क्षतात् त्रायकं बलं धनं वा (नयति) प्रापयति (हन्ति) नाशयति (वर्चः) तेजः (अग्निः) पावकः (इव) यथा (आरब्धः) समन्तादुद्यतः। प्रज्वलितः (वि) विशेषेण (दुनोति) उपतापयति (सर्वम्) सम्पूर्णपदार्थजातम् (यः) दुष्टः (ब्राह्मणम्) अनूचानम् (मन्यते) जानाति (अन्नम्) अदनीयं वस्तु (एव) निश्चयेन (सः) दुराचारी (विषस्य) हलाहलस्य (पिबति) पानं करोति (तैमातस्य) अ० ५।१३।६। तिमात−अण्। तिमातेन क्लेदनसाधनेन जलेन युक्तस्य ॥