Go To Mantra
Viewed 102 times

दे॑वपी॒युश्च॑रति॒ मर्त्ये॑षु गरगी॒र्णो भ॑व॒त्यस्थि॑भूयान्। यो ब्रा॑ह्म॒णं दे॒वब॑न्धुं हि॒नस्ति॒ न स पि॑तृ॒याण॒मप्ये॑ति लो॒कम् ॥

Mantra Audio
Pad Path

देवऽपीयु: । चरति । मर्त्येषु । गरऽगीर्ण: । भवति । अस्थिऽभूयान् । य: । ब्रह्माणम् । देवऽबन्धुम् । हिनस्ति । न । स: । पितृऽयानम् । अपि । एति । लोकम् ॥१८.१३॥

Atharvaveda » Kand:5» Sukta:18» Paryayah:0» Mantra:13


PANDIT KSHEMKARANDAS TRIVEDI

वेदविद्या की रक्षा का उपदेश।

Word-Meaning: - (देवपीयुः) विद्वानों का सतानेवाला (मर्त्येषु) मनुष्यों के बीच (चरति) फिरता है, (गरगीर्णः) विष खाया हुआ वह (अस्थिभूयान्) हाड़ ही हाड़ (भवति) रह जाता है। (यः) जो मनुष्य (देवबन्धुम्) महात्माओं के बन्धु (ब्राह्मणम्) ब्राह्मण को (हिनस्ति) सताता है, (सः) वह (पितृयाणम्) पालन करनेवाले विद्वानों के पाने योग्य (लोकम्) लोक को (न अपि) कभी नहीं (एति) पाता है ॥१३॥
Connotation: - देवनिन्दक पुरुष अविद्या के कारण दुर्बल आत्मा और रोगी होकर विद्वानों में प्रतिष्ठा नहीं पाता ॥१३॥
Footnote: १३−(देवपीयुः) म० ५। विदुषां हिंसकः (चरति) गच्छति (मर्त्येषु) मनुष्येषु (गरगीर्णः) गॄ निगरणे−अप्+गॄ−क्त। परो विषो गीर्णो भक्षितो येन सः (भवति) (अस्थिभूयान्) अस्थि+बहु−ईयसुन्। बहोर्लोपो भू च बहोः। पा० ६।४।१५८। इति ईकारलोपो बहोश्च भूरादेशः। अस्थिभिर्बहुतरः। अस्थिशेषः। अतिदुर्बलः (यः) पाखण्डी (ब्राह्मणम्) वेदवेत्तारम् (देवबन्धुम्) विदुषां प्रियम् (हिनस्ति) दुःखयति (न अपि) न कदापि (सः) दुष्टः (पितृयाणम्) पितृभिः पालकैर्विद्वद्भिर्गमनीयम् (एति) प्राप्नोति (लोकम्) पदम्। भुवनम् ॥