Go To Mantra
Viewed 109 times

हस्ते॑नै॒व ग्रा॒ह्य॑ आ॒धिर॑स्या ब्रह्मजा॒येति॒ चेदवो॑चत्। न दू॒ताय॑ प्र॒हेया॑ तस्थ ए॒षा तथा॑ रा॒ष्ट्रं गु॑पि॒तं क्ष॒त्रिय॑स्य ॥

Mantra Audio
Pad Path

हस्तेन । एव । ग्राह्य: । आऽधि: । अस्या: । ब्रह्मऽजाया । इति । च । इत् । अवोचत् । न । दूताय । प्रऽहेया । तस्थे । एषा । तथा । राष्ट्रम् । गुपितम् । क्षत्रियस्य ॥१७.३॥

Atharvaveda » Kand:5» Sukta:17» Paryayah:0» Mantra:3


PANDIT KSHEMKARANDAS TRIVEDI

ब्रह्म विद्या का उपदेश।

Word-Meaning: - (च) और [उस विद्वान् ने] (इत्) ही (इति) इस प्रकार से (अवोचत्) कहा है। (ब्रह्मजाया) यह ब्रह्मविद्या है, (अस्याः) इसका (आधिः) आधार वा आश्रय (हस्तेन एव) हाथ से ही (ग्राह्यः) पकड़ना चाहिये। (एषा) यह (दूताय) सतानेवाले को (प्रहेया) देने योग्य (न तस्थे) नहीं स्थित हुई है, (तथा) उसी से (क्षत्रियस्य) क्षत्रिय का (राष्ट्रम्) राज्य (गुपितम्) रक्षा किया गया [रहता है] ॥३॥
Connotation: - विद्वान् लोग ब्रह्मविद्या का दृढ़ता से आदर करके आनन्द करते हैं, इसी से राज्य की रक्षा रहती है ॥३॥
Footnote: ३−(हस्तेन) पाणिना दृढतया, इत्यर्थः (एव) अवश्यम् (ग्राह्यः) ग्रह-ण्यत्। ग्रहीतव्यः (आधिः) उपसर्गे घोः किः। पा० ३।३।९२। इति आङ्+डुधाञ् धारणपोषणयोः−कि। आधारः। आश्रयः (अस्याः) ब्रह्मविद्यायाः (ब्रह्मजाया) म० २ ब्रह्मविद्या। वेदविद्या (इति) एवं प्रकारेण (च) (इत्) एव (अवोचत्) अवर्ण्यत् (न) निषेधे (दूताय) अ० १।७।६। टुदु उपतापे−कर्त्तरि क्त। उपतापकाय मनुष्याय (प्रहेया) ओहाक् त्यागे−यत् प्रकर्षेण त्याज्या दातव्या (तस्थे) तिष्ठतेर्लिटि। स्थिता बभूव (एषा) ब्रह्मविद्या (तथा) तस्मात्कारणात् (राष्ट्रम्) स० १।२९।१। राज्यम् (गुपितम्) रक्षितम् (क्षत्रियस्य) राज्ञः ॥