Go To Mantra
Viewed 107 times

सोमो॒ राजा॑ प्रथ॒मो ब्र॑ह्मजा॒यां पुनः॒ प्राय॑च्छ॒दहृ॑णीयमानः। अ॑न्वर्ति॒ता वरु॑णो मि॒त्र आ॑सीद॒ग्निर्होता॑ हस्त॒गृह्या नि॑नाय ॥

Mantra Audio
Pad Path

सोम: । राजा । प्रथम: । ब्रह्मऽजायाम् । पुन: । प्र । अयच्छत् । अहृणीयमान: । अनुऽअर्तिता । वरुण: । मित्र: । आसीत् । अग्नि: । होता । हस्तऽगुह्य । आ । निनाय ॥१७.२॥

Atharvaveda » Kand:5» Sukta:17» Paryayah:0» Mantra:2


PANDIT KSHEMKARANDAS TRIVEDI

ब्रह्म विद्या का उपदेश।

Word-Meaning: - (अहृणीयमानः) क्रोध नहीं करते हुए, (प्रथमः) मुख्य (राजा) राजा (सोमः) बड़े ऐश्वर्यवान् परमात्मा ने (पुनः) अवश्य (ब्रह्मजायाम्) ब्रह्मविद्या को (प्रायच्छत्) दान किया है। (वरुणः) श्रेष्ठ, (मित्रः) सर्वप्रेरक (अग्निः) ज्ञानवान् पुरुष (अन्वर्तिता) अनुकूलगामी और (होता) ग्रहीता (आसीत्) था और (हस्तगृह्य) हाथ में लेकर [वही उसे] (आ निनाय) लाया ॥२॥
Connotation: - परम कुपालु परमात्मा ने वेदविद्या प्रदान की है, जिसको बुद्धिमान् पुरुष आदरपूर्वक ग्रहण करते हैं ॥२॥
Footnote: २−(सोमः) परमैश्वर्यवान् परमात्मा (राजा) शासकः (प्रथमः) मुख्यः (ब्रह्मजायाम्) जनेर्यक्। उ० ५।१११। इति जन जनने−यक् आत्वम्, टाप् च। यद्वा। जायतिर्गतिकर्मा−निघ० २।१४। जै गतौ−घञ्, टाप्। ये धातवो गत्यर्थास्ते ज्ञानार्थाः। जनयति उत्पादयति सुखानि या, यद्वा, जायति जानाति यया सा जाया विद्या। ब्रह्मणः परमेश्वरस्य जायां वेदविद्याम् (पुनः) अवश्यम् (प्र) प्रकर्षेण (अयच्छत्) अदात् (अहृणीयमानः) हृणीङ् रोषे लज्जायां च−शानच्। अक्रुध्यन् (अन्वर्तिता) ऋत गतौ−तृच्। अनुकूलं गन्ता (वरुणः) श्रेष्ठः (मित्रः) प्रेरकः (आसीत्) अभवत् (अग्निः) ज्ञानवान् पुरुषः (होता) आदाता (हस्तगृह्य) नित्यं हस्ते पाणावुपयमने। पा० १।४।७७। इति हस्ते शब्दस्य गतिसंज्ञायां ग्रह−ल्यप्, एकारलोपश्छान्दसः। हस्ते गृहीत्वा (आ निनाय) आनीतवान् ॥