Go To Mantra
Viewed 86 times

वृषा॑ मे॒ रवो॒ नभ॑सा॒ न त॑न्य॒तुरु॒ग्रेण॑ ते॒ वच॑सा बाध॒ आदु॑ ते। अ॒हं तम॑स्य॒ नृभि॑रग्रभं॒ रसं॒ तम॑स इव॒ ज्योति॒रुदे॑तु॒ सूर्यः॑ ॥

Mantra Audio
Pad Path

वृषा । मे । रव: । नभसा । न । तन्यतु: । उग्रेण । ते । वचसा । बाधे । आत् ।ऊं इति । ते । अहम् । तम् । अस्य । नृऽभि: । अग्रभम् । रसम् । तमस:ऽइव । ज्योति:। उत् । एतु । सूर्य: ॥१३.३॥

Atharvaveda » Kand:5» Sukta:13» Paryayah:0» Mantra:3


PANDIT KSHEMKARANDAS TRIVEDI

दोषनिवारण के लिये उपदेश।

Word-Meaning: - (मे) मेरा (रवः) शब्द (नभसा) मेघ के साथ (तन्यतुः न) गर्जन के समान (वृषा) शक्तिवाला है। (आत् उ) और भी (वचसा) अपने वचन से (ते) तेरे, (ते) तेरे [रस को] (बाधे) हटाता हूँ। (अहम्) मैंने (नृभिः) मनुष्यों के साथ (अस्य) इसके (तम् रसम्) उस रस को (तमसः) अन्धकार से (ज्योतिः इव) ज्योति के समान (अग्रभम्) मैंने पकड़ लिया है। [अव] (सूर्यः) सूर्य (उदेतु) उदय होवे ॥३॥
Connotation: - मनुष्य आत्मबल बढ़ाकर विषरूपी अज्ञान का नाश करके विद्यारूपी सूर्य का प्रकाश करें ॥३॥
Footnote: ३−(वृषा) अ० १।१२।१। वृषु ऐश्वर्ये−कनिन्। ऐश्वर्यवान् (मे) मम (रवः) शब्दः (नभसा) मेघेन (न) इव (तन्यतुः) ऋतन्यञ्जि०। उ० ४।२। इति तनु विस्तारे−यतुच्। मेघनादः−विद्युत् (उग्रेण) तीव्रेण (ते) तव रसम् (वचसा) वचनेन (बाधे) निवारयामि (आत्) अनन्तरम् (उ) अवश्यम् (ते) तव (अहम्) जीवः (तम्) प्रसिद्धम् (अस्य) पुरोवर्तिनः (नृभिः) मनुष्यैः (अग्रभम्) अहं गृहीतवान् (रसम्) प्रभावम् (तमसः) अन्धकारात् (इव) यथा (ज्योतिः) प्रकाशम् (उदेतु) उद्गच्छतु (सूर्यः) रविः ॥