Go To Mantra
Viewed 84 times

आ सु॒ष्वय॑न्ती यज॒ते उ॒पाके॑ उ॒षासा॒नक्ता॑ सदतां॒ नि योनौ॑। दि॒व्ये योष॑णे बृह॒ती सु॑रु॒क्मे अधि॒ श्रियं॑ शुक्र॒पिशं॒ दधा॑ने ॥

Mantra Audio
Pad Path

आ । सुस्वयन्ती इति । यजते इति । उपाके इति । उषसानक्ता । सदताम् । नि । योनौ । दिव्ये इति । योषण इति । बृहती इति । सुरुक्मे इति सुऽरुक्मे । अधि । श्रियम् । शुक्रऽपिशम् । दधाने इति ॥१२.६॥

Atharvaveda » Kand:5» Sukta:12» Paryayah:0» Mantra:6


PANDIT KSHEMKARANDAS TRIVEDI

मनुष्य की उन्नति का उपदेश।

Word-Meaning: - (सुष्वयन्ती=सुसुअयन्त्यौ) अति सुन्दरता से चलती हुयी, (यञ्जते) संगति योग्य, (उपाके) पास पास रहनेवाली, (दिव्ये) दिव्य गुणवाली, (योपणे) सेवा योग्य, (बृहती) वृद्धि करनेवाली, (सुरुक्मे) सुन्दर शोभावाली, (शुक्रपिशम्) शुद्ध रूप युक्त (श्रियम्) सेवनीय श्री को (अधि) अधिक (दधाने) धारण करनेवाली (उषासानक्ता) रात और प्रभात वेलायें [दिन और रात] (योनौ) हमारे घर में (नि) नित्य (आ सदताम्) आवें ॥६॥
Connotation: - मनुष्य रात-दिन पुरुषार्थ करके विद्यारूपी और धनरूपी लक्ष्मी को अपने घरों में बढ़ावें ॥६॥
Footnote: ६−(सुष्वयन्ती) सु+सु+अय गतौ−शतृ, ङीप्। अत्यन्तं सुष्ठु अयन्त्यौ। आसुष्वयन्ती... सेष्मीयमाणे इति वा सुष्वापयन्त्याविति वा−निरु० ८।११। (यजते) यज−अतच्। यष्टव्ये। संगतव्ये (उपाके) उप+अक गतौ−पचाद्यच्। सन्निहिते−अन्तिकनाम−निघ० २।१६। (उषासानक्ता) उषः किच्च। उ० ४।२३४। इति उष दाहे−असि, यद्वा उच्छी विवासे वा वश कान्तौ−असि। उषाः कस्मादुच्छतीति सत्या रात्रेरपरः कालः−निरु० २।१८। नज व्रीडायाम् क्तः। नक्तं रात्रिः। उषाश्च नक्तं च द्वन्द्वे। उषासोषसः। पा० ६।३।३१। इति उषासादेशः। द्विवचनस्याकारः। अहोरात्रे (आसदताम्) आ सीदताम्। आगच्छताम् (नि) नित्यम् (योनौ) गृहे−निघ० ३।४। (दिव्ये) दिव्यस्वरूपे (योषणे) युष सेवने−ल्यु। सेव्ये (बृहती) महत्यौ (सुरुक्मे) सुरोचने (अधि) अधिकम् (श्रियम्) शोभां लक्ष्मीं वा (शुक्रपिशम्) पिश अवयवे−क्विप्। शुक्रपिशम्... शुक्रपेशसम्... शुक्रं शोचतेर्ज्वलतिकर्मणः। पेश इति रूपनाम पिंशतेर्विपिशितं भवति−निरु० ८।११। शुद्धरूपयुक्ताम् (दधाने) धारयन्त्यौ ॥