Go To Mantra
Viewed 96 times

प्रा॒चीनं॑ ब॒र्हिः प्र॒दिशा॑ पृथि॒व्या वस्तो॑र॒स्या वृ॑ज्यते॒ अग्रे॒ अह्ना॑म्। व्यु॑ प्रथते वित॒रं वरी॑यो दे॒वेभ्यो॒ अदि॑तये स्यो॒नम् ॥

Mantra Audio
Pad Path

प्राचीनम् । बर्हि: । प्रऽदिशा । पृथिव्या: । वस्तो: । अस्या: । वृज्यते । अग्रे । अह्नाम् । वि ।ऊं इति । प्रथते । विऽतरम् । वरीय: । देवेभ्य: । अदितये । स्योनम् ॥१२.४॥

Atharvaveda » Kand:5» Sukta:12» Paryayah:0» Mantra:4


PANDIT KSHEMKARANDAS TRIVEDI

मनुष्य की उन्नति का उपदेश।

Word-Meaning: - (अह्नाम्) दिनों के (अग्रे) पहिले [वर्तमान] (प्राचीनम्) प्राचीन (बर्हिः) प्रवृद्ध ब्रह्म (प्रदिशा) अपने निर्देश वा शासन से (अस्याः) इस (पृथिव्याः) पृथिवी के (वस्तोः) ढक लेने के लिये (वृज्यते) छोड़ा जाता है [वर्तमान रहता है]। (वितरम्) विशेष कर तारनेवाला, (देवेभ्यः) प्रकाशमान सूर्य आदि लोकों से (वरीयः) अधिक विस्तारवाला, (स्योनम्) सुखदायक ब्रह्म (अदितये) अखण्ड मोक्ष सुख [देने] के लिये (वि उ) विशेष करके ही (प्रथते) फैलता है ॥४॥
Connotation: - वह परब्रह्म अपनी अनन्त सामर्थ्य से पृथिवी और सूर्य आदि लोकों को परस्पर आकर्षण में रखता और पुरुषार्थी विद्वानों को मुक्ति देता है ॥४॥
Footnote: ४−(प्राचीनम्) प्राक्तनम् (बर्हिः) प्रवृद्धं ब्रह्म (प्रदिशा) निर्देशेन। शासनेन (पृथिव्याः) भूमेः (वस्तोः) ईश्वरे तोसुन्कसुनौ। प० ३।४।११३। इति वस अच्छादने−तोसुन्। वसितुम्। आच्छादनं कर्तुम् (वृज्यते) त्यज्यते स्वातन्त्र्येण विचरतीत्यर्थः (अग्रे) पूर्ववर्तमानम् (अह्नाम्) दिनानां कालविभागानाम् (वि) विशेषेण (उ) एव (प्रथते) विस्तीर्यते (वितरम्) विशेषेण संतारकम् (वरीयः) अ० १।२।२। उरुतरम्। विस्तीर्णतरम् (देवेभ्यः) प्रकाशमानेभ्यः सूर्यादिलोकेभ्यः सकाशात् (अदितये) अ० २।२८।४। अखण्डनीयायै मुक्तये शान्तये (स्योनम्) अ० १।३३।१। सुखकरम् ॥