Go To Mantra
Viewed 91 times

तनू॑नपात्प॒थ ऋ॒तस्य॒ याना॒न्मध्वा॑ सम॒ञ्जन्त्स्व॑दया सुजिह्व। मन्मा॑नि धी॒भिरु॒त य॒ज्ञमृ॒न्धन्दे॑व॒त्रा च॑ कृणुह्यध्व॒रं नः॑ ॥

Mantra Audio
Pad Path

तनूऽनपात् । पथ: । ऋतस्य । यानान् । मध्वा । सम्ऽअञ्जन् । स्वदय । सुऽजिह्व । मन्मानि । धीभि: । उत । यज्ञम् । ऋन्धन् । देवऽत्रा । च । कृणुहि । अध्वरम् । न: ॥१२.२॥

Atharvaveda » Kand:5» Sukta:12» Paryayah:0» Mantra:2


PANDIT KSHEMKARANDAS TRIVEDI

मनुष्य की उन्नति का उपदेश।

Word-Meaning: - (तनूनपात्) हे विस्तृत पदार्थों के न गिरानेवाले, (सुजिह्व) हे बड़े जयशील वा मधुरभाषी विद्वान् ! (ऋतस्य) सत्य के (यानान्) चलने योग्य (पथः) मार्गों को (मध्वा) ज्ञान से (समञ्जन्) प्रकट करता हुआ (स्वादय) स्वाद ले (धीभिः) कर्मों के साथ (मन्मानि) ज्ञानों (उत) और (यज्ञम्) पूजनीय व्यवहार को (ऋन्धन्) सिद्ध करता हुआ तू (देवत्रा) विद्वानों के बीच (नः) हमारे लिये (अध्वरम्) सन्मार्ग देनेवाला वा हिंसारहित व्यवहार को (च) अवश्य (कृणुहि) कर ॥२॥
Connotation: - आप्त विद्वान् पुरुष ज्ञानकाण्ड और कर्मकाण्ड में निपुण होकर संसार का उपकार करते हैं ॥२॥
Footnote: २−(तनूनपात्) नभ्राण्नपान्नवेदा०। प० ६।३।७५। इति न+पत्लृ अधःपतने, णिच्−क्विप्। नञः प्रकृतिभावश्च। हे तनूनां विस्तृतानां पदार्थानां न पातयितः। तनूनपात् पदनाम−निघ० ५।२। इदं पदं बहुधा व्याख्यातम्−निरु० ८।५। (पथः) मार्गान् (ऋतस्य) सत्यस्य (यानान्) करणाधिकरणयोश्च। पा० ३।३।११७। इति या प्रापणे−ल्यु। यातव्यान् (मध्वा) मन ज्ञाने−उ नस्य धः। ज्ञानेन (समञ्जन्) सम्यक् प्रकटीकुर्वन् (स्वदय) आस्वादय (सुजिह्व) शेवायह्वजिह्वा०। उ० १।१५४। इति जि जये−वन् हुक् च। हे अतिशयेन जयशील मधुरभाषिन् वा (मन्मानि) सर्वधातुभ्यो मनिन्। उ० ४।१४५। मन ज्ञाने−मनिन्। ज्ञानानि (धीभिः) कर्मभिः−निघ० २।१। (उत) अपि च (यज्ञम्) पूजनीयं व्यवहारम् (ऋन्धन्) संसाधयन् (देवत्रा) विद्वत्सु (च) अवश्यम् (कृणुहि) कुरु (अध्वरम्) अ० १।४।१। सन्मार्गदातारं हिंसारहितं वा व्यवहारम् (नः) अस्मभ्यम् ॥