Go To Mantra
Viewed 103 times

स॒द्यो जा॒तो व्य॑मिमीत य॒ज्ञम॒ग्निर्दे॒वाना॑मभवत्पुरो॒गाः। अ॒स्य होतुः॑ प्र॒शिष्यृ॒तस्य॑ वा॒चि स्वाहा॑कृतं ह॒विर॑दन्तु दे॒वाः ॥

Mantra Audio
Pad Path

सद्य: । जात: । वि । अमिमीत । यज्ञम् । अग्नि: । देवानाम् । अभवत् । पुर:ऽगा: । अस्य । होतु: । प्रऽशिषि । ऋतस्य । वाचि । स्वाहाऽकृतम् । हवि: । अदन्तु । देवा: ॥१२.११॥

Atharvaveda » Kand:5» Sukta:12» Paryayah:0» Mantra:11


PANDIT KSHEMKARANDAS TRIVEDI

मनुष्य की उन्नति का उपदेश।

Word-Meaning: - (सद्यः) शीघ्र (जातः) प्रसिद्ध होकर (अग्निः) विद्वान् पुरुष ने (यज्ञम्) पूजनीय व्यवहार को (वि) विशेष करके (अमिमीत) निर्माण किया, और (देवानाम्) विद्वान् लोगों का (पुरोगाः) अगुआ (अभवत्) हुआ। (अस्य) इस (होतुः) दानशील, (ऋतस्य) सत्यशील पुरुष के (प्रशिषि) अनुशासन और (वाचि) वाणी में (देवाः) विद्वान् लोग (स्वाहाकृतम्) सुन्दर वाणी से सिद्ध किया हुआ (हविः) खाने योग्य अन्न आदि (अदन्तु) खावें ॥११॥
Connotation: - पुरुषार्थी मनुष्य उत्तम कर्म करने से विद्वानों का अग्रगामी होता है और उसीके शासन और वचन में चलकर विद्वान् लोग आनन्द भोगते हैं ॥११॥
Footnote: ११−(सद्यः) शीघ्रम् (जातः) प्रकटः सन् (वि) विशेषेण (अमिमीत) माङ् माने शब्दे च, जुहोत्यादिः−लङ्। निर्मितवान् (यज्ञम्) पूजनीयं व्यवहारम् (अग्निः) ज्ञानवान् पुरुषः (देवानाम्) विदुषाम् (अभवत्) (पुरोगाः) गमेर्विट्। विड्वनोरनुनासिकस्यात्। पा० ६।४।४१। इति मस्याकारः। अग्रगामी (अस्य) विदुषः (होतुः) दातुः (प्रशिषि) प्रशासने (ऋतस्य) सत्यस्वभावस्य (वाचि) वाण्याम् (स्वाहाकृतम्) सुवाण्या निष्पादितम् (हविः) आद्यमन्नम् (अदन्तु) भुञ्जताम् (देवाः) विद्वांसः ॥