उ॒पाव॑सृज॒ त्मन्या॑ सम॒ञ्जन्दे॒वानां॒ पाथ॑ ऋतु॒था ह॒वींषि॑। वन॒स्पतिः॑ शमि॒ता दे॒वो अ॒ग्निः स्वद॑न्तु ह॒व्यं मधु॑ना घृ॒तेन॑ ॥
उपऽअवसृज । त्मन्या । सम्ऽअञ्जन् । देवानाम् । पाथ: । ऋतुऽथा । हवींषि ।वनस्पति: । शमिता । देव: । अग्नि: । स्वदन्तु । हव्यम् । मधुना । घृतेन ॥१२.१०॥
PANDIT KSHEMKARANDAS TRIVEDI
मनुष्य की उन्नति का उपदेश।
