Go To Mantra
Viewed 83 times

त्वं ह्यङ्ग व॑रुण॒ ब्रवी॑षि॒ पुन॑र्मघेष्वव॒द्यानि॒ भूरि॑। मो षु प॒णीँर॑भ्ये॒ताव॑तो भू॒न्मा त्वा॑ वोचन्नरा॒धसं॒ जना॑सः ॥

Mantra Audio
Pad Path

त्वम् । हि । अङ्ग । वरुण । ब्रवीषि । पुन:ऽमघेषु । अवद्यानि । भूरि । मो इति । सु । पणीन् । अभि । एतावत: । भूत् । मा । त्वा । वोचन् । अराधसम् । जनास: ॥११.७॥

Atharvaveda » Kand:5» Sukta:11» Paryayah:0» Mantra:7


PANDIT KSHEMKARANDAS TRIVEDI

ब्रह्म विद्या का उपदेश।

Word-Meaning: - (अङ्ग) हे (वरुण) वरुण श्रेष्ठ पुरुष ! (त्वम्) तू (हि) ही (पुनर्मघेषु) बार-बार धन देनेवालों के बीच [वर्तमान होकर] (भूरि) बहुत से (अवद्यानि) अनिन्दनीय अर्थात् प्रशंसनीय वचनों को (ब्रवीषि) बोलता है। (एतावतः) इतने (पणीन् अभि) कुव्यवहारी पुरुषों की ओर (सु) अनायास [सहज स्वभाव से] (मो भूत्) कभी मत हो, [जिस से] (जनासः) लोग (त्वा) तुझ को (अराधसम्) अदानी (मा वोचन्) न कहें ॥७॥
Connotation: - मनुष्य सत्पुरुषों में उत्तम शिक्षाओं का प्रचार करें, क्योंकि दुष्ट पुरुषों और दुष्ट कर्मों में पड़कर अच्छा मनुष्य भी दोषी हो जाता है ॥७॥
Footnote: ७−(त्वम्) (हि) अवश्यम् (अङ्ग) हे वरुण श्रेष्ठ पुरुष (ब्रवीषि) कथयसि (पुनर्मघेषु) म० १। भूयो भूयो धनदातृषु वर्तमानः सन् (अवद्यानि) अव हीने यथा, अवमानम् =अपमानम्। द्यै तिरस्कारे−क। अवगतानि अपगतानि द्यानि तिरस्कारा येषां तानि। अनिन्द्यानि प्रशंसनीयानि वचनानि (भूरि) भूरीणि बहूनि (मो भूत्) मध्यमपुरुषस्य प्रथमपुरुषः। मैव भूः (सु) सुन्दररीत्या (पणीन्) कुव्यवहारिणः पुरुषान् (अभि) अभिलक्ष्य। व्याप्य (एतावतः) एतत्परिमाणान्। पुरोवर्तिनः (मा वोचन्) न कथयन्तु (त्वा) त्वाम् (अराधसम्) नास्ति राधो धनं यस्मात् सोऽराधास्तम्। अधनदातारम्। कृषणम् (जनासः) जनाः ॥